रामायण · अध्याय 1.076
गते रामे प्रशान्तात्मा रामो दाशरथिर् धनुः
वरुणायाप्रमेयाय ददौ हस्ते ससायकम्
अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन्
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी
अयोध्याभिमुखी सेना त्वया नाथेन पालिता
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्
बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम्
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः
चोदयाम् आस तां सेनां जगामाशु ततः पुरीम्
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्
राजप्रवेशसुमुखैः पौरैर् मङ्गलवादिभिः
संपूर्णां प्राविशद् राजा जनौघैः समलंकृताम्
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
वधूप्रतिग्रहे युक्ता याश् चान्या राजयोषितः
ततः सीतां महाभागाम् ऊर्मिलां च यशस्विनीम्
कुशध्वजसुते चोभे जगृहुर् नृपपत्नयः
मङ्गलालापनैश् चैव शोभिताः क्षौमवाससः
देवतायतनान्य् आशु सर्वास् ताः प्रत्यपूजयन्
अभिवाद्याभिवाद्यांश् च सर्वा राजसुतास् तदा
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः
कृतदाराः कृतास्त्राश् च सधनाः ससुहृज्जनाः
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः
तेषाम् अतियशा लोके रामः सत्यपराक्रमः
स्वयम्भूर् इव भूतानां बभूव गुणवत्तरः
रामस् तु सीतया सार्धं विजहार बहून् ऋतून्
मनस्वी तद्गतस् तस्या नित्यं हृदि समर्पितः
प्रिया तु सीता रामस्य दाराः पितृकृता इति
गुणाद् रूपगुणाच् चापि प्रीतिर् भूयो व्यवर्धत
तस्याश् च भर्ता द्विगुणं हृदये परिवर्तते
अन्तर्जातम् अपि व्यक्तम् आख्याति हृदयं हृदा
तस्य भूयो विशेषेण मैथिली जनकात्मजा
देवताभिः समा रूपे सीता श्रीर् इव रूपिणी
तया स राजर्षिसुतो ऽभिरामया समेयिवान् उत्तमराजकन्यया
अतीव रामः शुशुभे ऽतिकामया विभुः श्रिया विष्णुर् इवामरेश्वरः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0