रामायण · अध्याय 1.075
श्रुत्वा तज् जामदग्न्यस्य वाक्यं दाशरथिस् तदा
गौरवाद् यन्त्रितकथः पितू रामम् अथाब्रवीत्
श्रुतवान् अस्मि यत् कर्म कृतवान् असि भार्गव
अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः
वीर्यहीनम् इवाशक्तं क्षत्रधर्मेण भार्गव
अवजानामि मे तेजः पश्य मे ऽद्य पराक्रमम्
इत्य् उक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्
शरं च प्रतिसंगृह्य हस्ताल् लघुपराक्रमः
आरोप्य स धनू रामः शरं सज्यं चकार ह
जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद् वचः
ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च
तस्माच् छक्तो न ते राम मोक्तुं प्राणहरं शरम्
इमां वा त्वद्गतिं राम तपोबलसमार्जितान्
लोकान् अप्रतिमान् वापि हनिष्यामि यद् इच्छसि
न ह्य् अयं वैष्णवो दिव्यः शरः परपुरंजयः
मोघः पतति वीर्येण बलदर्पविनाशनः
वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः
पितामहं पुरस्कृत्य समेतास् तत्र संघशः
गन्धर्वाप्सरसश् चैव सिद्धचारणकिंनराः
यक्षराक्षसनागाश् च तद् द्रष्टुं महद् अद्भुतम्
जडीकृते तदा लोके रामे वरधनुर्धरे
निर्वीर्यो जामदग्न्यो ऽसौ रमो रामम् उदैक्षत
तेजोभिर् हतवीर्यत्वाज् जामदग्न्यो जडीकृतः
रामं कमल पत्राक्षं मन्दं मन्दम् उवाच ह
काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा
विषये मे न वस्तव्यम् इति मां काश्यपो ऽब्रवीत्
सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्
इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह
तद् इमां त्वं गतिं वीर हन्तुं नार्हसि राघव
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्
लोकास् त्व् अप्रतिमा राम निर्जितास् तपसा मया
जहि ताञ् शरमुख्येन मा भूत् कालस्य पर्ययः
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्
धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परंतप
एते सुरगणाः सर्वे निरीक्षन्ते समागताः
त्वाम् अप्रतिमकर्माणम् अप्रतिद्वन्द्वम् आहवे
न चेयं मम काकुत्स्थ व्रीडा भवितुम् अर्हति
त्वया त्रैलोक्यनाथेन यद् अहं विमुखीकृतः
शरम् अप्रतिमं राम मोक्तुम् अर्हसि सुव्रत
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्
रामो दाशरथिः श्रीमांश् चिक्षेप शरम् उत्तमम्
ततो वितिमिराः सर्वा दिशा चोपदिशस् तथा
सुराः सर्षिगणा रामं प्रशशंसुर् उदायुधम्
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च
ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0