भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.074

1.074.001

राम दाशरथे वीर वीर्यं ते श्रूयते ऽधुतम्
धनुषो भेदनं चैव निखिलेन मया श्रुतम्

1.074.002

तद् अद्भुतम् अचिन्त्यं च भेदनं धनुषस् त्वया
तच् छ्रुत्वाहम् अनुप्राप्तो धनुर् गृह्यापरं शुभम्

1.074.003

तद् इदं घोरसंकाशं जामदग्न्यं महद् धनुः
पूरयस्व शरेणैव स्वबलं दर्शयस्व च

1.074.004

तद् अहं ते बलं दृष्ट्वा धनुषो ऽस्य प्रपूरणे
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यम् इदं तव

1.074.005

तस्य तद् वचनं श्रुत्वा राजा दशरथस् तदा
विषण्णवदनो दीनः प्राञ्जलिर् वाक्यम् अब्रवीत्

1.074.006

क्षत्ररोषात् प्रशान्तस् त्वं ब्राह्मणस्य महायशाः
बालानां मम पुत्राणाम् अभयं दातुम् अर्हसि

1.074.007

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवान् असि

1.074.008

स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम्
दत्त्वा वनम् उपागम्य महेन्द्रकृतकेतनः

1.074.009

मम सर्वविनाशाय संप्राप्तस् त्वं महामुने
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्

1.074.010

ब्रुवत्य् एवं दशरथे जामदग्न्यः प्रतापवान्
अनादृत्यैव तद् वाक्यं रामम् एवाभ्यभाषत

1.074.011

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा

1.074.012

अतिसृष्टं सुरैर् एकं त्र्यम्बकाय युयुत्सवे
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत् त्वया

1.074.013

इदं द्वितीयं दुर्धर्षं विष्णोर् दत्तं सुरोत्तमैः
समानसारं काकुत्स्थ रौद्रेण धनुषा त्व् इदम्

1.074.014

तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्
शितिकण्ठस्य विष्णोश् च बलाबलनिरीक्षया

1.074.015

अभिप्रायं तु विज्ञाय देवतानां पितामहः
विरोधं जनयाम् आस तयोः सत्यवतां वरः

1.074.016

विरोधे च महद् युद्धम् अभवद् रोमहर्षणम्
शितिकण्ठस्य विष्णोश् च परस्परजयैषिणोः

1.074.017

तदा तज् जृम्भितं शैवं धनुर् भीमपराक्रमम्
हुंकारेण महादेवः स्तम्भितो ऽथ त्रिलोचनः

1.074.018

देवैस् तदा समागम्य सर्षिसंघैः सचारणैः
याचितौ प्रशमं तत्र जग्मतुस् तौ सुरोत्तमौ

1.074.019

जृम्भितं तद् धनुर् दृष्ट्वा शैवं विष्णुपराक्रमैः
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास् तदा

1.074.020

धनू रुद्रस् तु संक्रुद्धो विदेहेषु महायशाः
देवरातस्य राजर्षेर् ददौ हस्ते ससायकम्

1.074.021

इदं च विष्णवं राम धनुः परपुरंजयम्
ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासम् उत्तमम्

1.074.022

ऋचीकस् तु महातेजाः पुत्रस्याप्रतिकर्मणः
पितुर् मम ददौ दिव्यं जमदग्नेर् महात्मनः

1.074.023

न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिम् आस्थितः

1.074.024

वधम् अप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्
क्षत्रम् उत्सादयं रोषाज् जातं जातम् अनेकशः

1.074.025

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे

1.074.026

दत्त्वा महेन्द्रनिलयस् तपोबलसमन्वितः
श्रुतवान् धनुषो भेदं ततो ऽहं द्रुतम् आगतः

1.074.027

तद् इदं वैष्णवं राम पितृपैतामहं महत्
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्

1.074.028

योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम्
यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc