रामायण · अध्याय 1.073
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम्
विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम्
आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम्
अथ राजा विदेहानां ददौ कन्याधनं बहु
गवां शतसहस्राणि बहूनि मिथिलेश्वरः
कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्
ददौ कन्या पिता तासां दासीदासम् अनुत्तमम्
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च
ददौ परमसंहृष्टः कन्याधनम् अनुत्तमम्
दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः
राजाप्य् अयोध्याधिपतिः सह पुत्रैर् महात्मभिः
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः
गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम्
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस् ततः
भौमाश् चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत
असौम्याः पक्षिणो घोरा मृगाश् चापि प्रदक्षिणाः
किम् इदं हृदयोत्कम्पि मनो मम विषीदति
राज्ञो दशरथस्यैतच् छ्रुत्वा वाक्यं महान् ऋषिः
उवाच मधुरां वाणीं श्रूयताम् अस्य यत् फलम्
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच् च्युतम्
मृगाः प्रशमयन्त्य् एते संतापस् त्यज्यताम् अयम्
तेषां संवदतां तत्र वायुः प्रादुर् बभूव ह
कम्पयन् मेदिनीं सर्वां पातयंश् च द्रुमाञ् शुभान्
तमसा संवृतः सूर्यः सर्वा न प्रबभुर् दिशः
भस्मना चावृतं सर्वं संमूढम् इव तद् बलम्
वसिष्ठ ऋषयश् चान्ये राजा च ससुतस् तदा
ससंज्ञा इव तत्रासन् सर्वम् अन्यद् विचेतनम्
तस्मिंस् तमसि घोरे तु भस्मच्छन्नेव सा चमूः
ददर्श भीमसंकाशं जटामण्डलधारिणम्
कैलासम् इव दुर्धर्षं कालाग्निम् इव दुःसहम्
ज्वलन्तम् इव तेजोभिर् दुर्निरीक्ष्यं पृथग्जनैः
स्कन्धे चासज्य परशुं धनुर् विद्युद्गणोपमम्
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम्
तं दृष्ट्वा भीमसंकाशं ज्वलन्तम् इव पावकम्
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः
संगता मुनयः सर्वे संजजल्पुर् अथो मिथः
कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति
पूर्वं क्षत्रवधं कृत्वा गतमन्युर् गतज्वरः
क्षत्रस्योत्सादनं भूयो न खल्व् अस्य चिकीर्षितम्
एवम् उक्त्वार्घ्यम् आदाय भार्गवं भीमदर्शनम्
ऋषयो राम रामेति मधुरां वाचम् अब्रुवन्
प्रतिगृह्य तु तां पूजाम् ऋषिदत्तां प्रतापवान्
रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0