भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.072

1.072.001

यस्मिंस् तु दिवसे राजा चक्रे गोदानम् उत्तमम्
तस्मिंस् तु दिवसे शूरो युधाजित् समुपेयिवान्

1.072.002

पुत्रः केकयराजस्य साक्षाद् भरतमातुलः
दृष्ट्वा पृष्ट्वा च कुशलं राजानम् इदम् अब्रवीत्

1.072.003

केकयाधिपती राजा स्नेहात् कुशलम् अब्रवीत्
येषां कुशलकामो ऽसि तेषां संप्रत्य् अनामयम्

1.072.004

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते
तदर्थम् उपयातो ऽहम् अयोध्यां रघुनन्दन

1.072.005

श्रुत्वा त्व् अहम् अयोध्यायां विवाहार्थं तवात्मजान्
मिथिलाम् उपयातास् तु त्वया सह महीपते
त्वरयाभ्युपयातो ऽहं द्रष्टुकामः स्वसुः सुतम्

1.072.006

अथ राजा दशरथः प्रियातिथिम् उपस्थिम
दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत्

1.072.007

ततस् ताम् उषितो रात्रिं सह पुत्रैर् महात्मभिः
ऋषींस् तदा पुरस्कृत्य यज्ञवाटम् उपागमत्

1.072.008

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः
वसिष्ठं पुरतः कृत्वा महर्षीन् अपरान् अपि

1.072.009

वसिष्ठो भगवान् एत्य वैदेहम् इदम् अब्रवीत्

1.072.010

राजा दशरथो राजन् कृतकौतुकमङ्गलैः
पुत्रैर् नरवरश्रेष्ठ दातारम् अभिकाङ्क्षते

1.072.011

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम्

1.072.012

इत्य् उक्तः परमोदारो वसिष्ठेन महात्मना
प्रत्युवाच महातेजा वाक्यं परमधर्मवित्

1.072.013

कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते
स्वगृहे को विचारो ऽस्ति यथा राज्यम् इदं तव

1.072.014

कृतकौतुकसर्वस्वा वेदिमूलम् उपागताः
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर् इवार्चिषः

1.072.015

सज्जो ऽहं त्वत्प्रतीक्षो ऽस्मि वेद्याम् अस्यां प्रतिष्ठितः
अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते

1.072.016

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस् तदा
प्रवेशयाम् आस सुतान् सर्वान् ऋषिगणान् अपि

1.072.017

अब्रवीज् जनको राजा कौसल्यानन्दवर्धनम्
इयं सीता मम सुता सहधर्मचरी तव
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना

1.072.018

लक्ष्मणागच्छ भद्रं ते ऊर्मिलाम् उद्यतां मया
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः

1.072.019

तम् एवम् उक्त्वा जनको भरतं चाभ्यभाषत
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन

1.072.020

शत्रुघ्नं चापि धर्मात्मा अब्रवीज् जनकेश्वरः
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना

1.072.021

सर्वे भवन्तः संयाश् च सर्वे सुचरितव्रताः
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः

1.072.022

जनकस्य वचः श्रुत्वा पाणीन् पाणिभिर् अस्पृशन्
चत्वारस् ते चतसृणां वसिष्ठस्य मते स्थिताः

1.072.023

अग्निं प्रदक्षिणं कृत्वा वेदिं राजानम् एव च
ऋषींश् चैव महात्मानः सह भार्या रघूत्तमाः
यथोक्तेन तथा चक्रुर् विवाहं विधिपूर्वकम्

1.072.024

पुष्पवृष्टिर् महत्य् आसीद् अन्तरिक्षात् सुभास्वरा
दिव्यदुन्दुभिनिर्घोषैर् गीतवादित्रनिस्वनैः

1.072.025

ननृतुश् चाप्सरःसंघा गन्धर्वाश् च जगुः कलम्
विवाहे रघुमुख्यानां तद् अद्भुतम् इवाभवत्

1.072.026

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते
त्रिर् अग्निं ते परिक्रम्य ऊहुर् भार्या महौजसः

1.072.027

अथोपकार्यां जग्मुस् ते सदारा रघुनन्दनः
राजाप्य् अनुययौ पश्यन् सर्षिसंघः सबान्धवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc