भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.071

1.071.001

तम् उक्तवन्तं वैदेहं विश्वामित्रो महामुनिः
उवाच वचनं वीरं वसिष्ठसहितो नृपम्

1.071.002

अचिन्त्यान्य् अप्रमेयानि कुलानि नरपुंगव
इक्ष्वाकूणां विदेहानां नैषां तुल्यो ऽस्ति कश् चन

1.071.003

सदृशो धर्मसंबन्धः सदृशो रूपसंपदा
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह

1.071.004

वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम

1.071.005

भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे

1.071.006

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः
वरयेम सुते राजंस् तयोर् अर्थे महात्मनोः

1.071.007

पुत्रा दशरथस्येमे रूपयौवनशालिनः
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः

1.071.008

उभयोर् अपि राजेन्द्र संबन्धेनानुबध्यताम्
इक्ष्वाकुकुलम् अव्यग्रं भवतः पुण्यकर्मणः

1.071.009

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा
जनकः प्राञ्जलिर् वाक्यम् उवाच मुनिपुंगवौ

1.071.010

सदृशं कुलसंबन्धं यद् आज्ञापयथः स्वयम्
एवं भवतु भद्रं वः कुशध्वजसुते इमे
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरताव् उभौ

1.071.011

एकाह्ना राजपुत्रीणां चतसृणां महामुने
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः

1.071.012

उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः

1.071.013

एवम् उक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः
उभौ मुनिवरौ राजा जनको वाक्यम् अब्रवीत्

1.071.014

परो धर्मः कृतो मह्यं शिष्यो ऽस्मि भवतोः सदा
इमान्य् आसनमुख्यानि आसेतां मुनिपुंगवौ

1.071.015

यथा दशरथस्येयं तथायोध्या पुरी मम
प्रभुत्वे नासित् संदेहो यथार्हं कर्तुम् अर्हथः

1.071.016

तथा ब्रुवति वैदेहे जनके रघुनन्दनः
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्

1.071.017

युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ
ऋषयो राजसंघाश् च भवद्भ्याम् अभिपूजिताः

1.071.018

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वम् आलयम्
श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत्

1.071.019

तम् आपृष्ट्वा नरपतिं राजा दशरथस् तदा
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः

1.071.020

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः
प्रभाते काल्यम् उत्थाय चक्रे गोदानम् उत्तमम्

1.071.021

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः
एकैकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः

1.071.022

सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः
गवां शतसहस्राणि चत्वारि पुरुषर्षभः

1.071.023

वित्तम् अन्यच् च सुबहु द्विजेभ्यो रघुनन्दनः
ददौ गोदानम् उद्दिश्य पुत्राणां पुत्रवत्सलः

1.071.024

स सुतैः कृतगोदानैर् वृतश् च नृपतिस् तदा
लोकपालैर् इवाभाति वृतः सौम्यः प्रजापतिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc