रामायण · अध्याय 1.070
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः
श्रोतुम् अर्हसि भद्रं ते कुलं नः कीर्तितं परम्
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः
वक्तव्यं कुलजातेन तन् निबोध महामुने
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः
तस्य पुत्रो मिथिर् नाम जनको मिथि पुत्रकः
प्रथमो जनको नाम जनकाद् अप्य् उदावसुः
उदावसोस् तु धर्मात्मा जातो वै नन्दिवर्धनः
नन्दिवर्धन पुत्रस् तु सुकेतुर् नाम नामतः
सुकेतोर् अपि धर्मात्मा देवरातो महाबलः
देवरातस्य राजर्षेर् बृहद्रथ इति श्रुतः
बृहद्रथस्य शूरो ऽभून् महावीरः प्रतापवान्
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः
सुधृतेर् अपि धर्मात्मा धृष्टकेतुः सुधार्मिकः
धृष्टकेतोस् तु राजर्षेर् हर्यश्व इति विश्रुतः
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः
देवमीढस्य विबुधो विबुधस्य महीध्रकः
महीध्रकसुतो राजा कीर्तिरातो महाबलः
कीर्तिरातस्य राजर्षेर् महारोमा व्यजायत
महारोंणस् तु धर्मात्मा स्वर्णरोमा व्यजायत
स्वर्णरोंणस् तु राजर्षेर् ह्रस्वरोमा व्यजायत
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः
ज्येष्ठो ऽहम् अनुजो भ्राता मम वीरः कुशध्वजः
मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः
कुशध्वजं समावेश्य भारं मयि वनं गतः
वृद्धे पितरि स्वर्याते धर्मेण धुरम् आवहम्
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्
कस्य चित् त्व् अथ कालस्य सांकाश्याद् अगमत् पुरात्
सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः
स च मे प्रेषयाम् आस शैवं धनुर् अनुत्तमम्
सीता कन्या च पद्माक्षी मह्यं वै दीयताम् इति
तस्याप्रदानाद् ब्रह्मर्षे युद्धम् आसीन् मया सह
स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्
सांकाश्ये भ्रातरं शूरम् अभ्यषिञ्चं कुशध्वजम्
कनीयान् एष मे भ्राता अहं ज्येष्ठो महामुने
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्
द्वितीयाम् ऊर्मिलां चैव त्रिर् वदामि न संशयः
ददामि परमप्रीतो वध्वौ ते रघुनन्दन
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु
मघा ह्य् अद्य महाबाहो तृतीये दिवसे प्रभो
फल्गुन्याम् उत्तरे राजंस् तस्मिन् वैवाहिकं कुरु
रामलक्ष्मणयोर् अर्थे दानं कार्यं सुखोदयम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0