रामायण · अध्याय 1.069
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्
भ्राता मम महातेजा यवीयान् अतिधार्मिकः
कुशध्वज इति ख्यातः पुरीम् अध्यवसच् छुभाम्
वार्याफलकपर्यन्तां पिबन्न् इक्षुमतीं नदीम्
सांकाश्यां पुण्यसंकाशां विमानम् इव पुष्पकम्
तम् अहं द्रष्टुम् इच्छामि यज्ञगोप्ता स मे मतः
प्रीतिं सो ऽपि महातेजा इंमां भोक्ता मया सह
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः
समानेतुं नरव्याघ्रं विष्णुम् इन्द्राज्ञया यथा
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः
स ददर्श महात्मानं जनकं धर्मवत्सलम्
सो ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्
राजार्हं परमं दिव्यम् आसनं चाध्यरोहत
उपविष्टाव् उभौ तौ तु भ्रातराव् अमितौजसौ
प्रेषयाम् आसतुर् वीरौ मन्त्रिश्रेष्ठं सुदामनम्
गच्छ मन्त्रिपते शीघ्रम् ऐक्ष्वाकम् अमितप्रभम्
आत्मजैः सह दुर्धर्षम् आनयस्व समन्त्रिणम्
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्
ददर्श शिरसा चैनम् अभिवाद्येदम् अब्रवीत्
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस् तदा
सबन्धुर् अगमत् तत्र जनको यत्र वर्तते
स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः
वाक्यं वाक्यविदां श्रेष्ठो वैदेहम् इदम् अब्रवीत्
विदितं ते महाराज इक्ष्वाकुकुलदैवतम्
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः
विश्वामित्राभ्यनुज्ञातः सह सर्वैर् महर्षिभिः
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्
तूष्णींभूते दशरथे वसिष्ठो भगवान् ऋषिः
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम्
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः
तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
विवस्वान् कश्यपाज् जज्ञे मनुर् वैवैस्वतः स्मृतः
मनुः प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः
तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम्
इक्ष्वाकोस् तु सुतः श्रीमान् विकुक्षिर् उदपद्यत
विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान्
बाणस्य तु महातेजा अनरण्यः प्रतापवान्
अनरण्यात् पृथुर् जज्ञे त्रिशङ्कुस् तु पृथोः सुतः
त्रिशङ्कोर् अभवत् पुत्रो धुन्धुमारो महायशाः
धुन्धुमारान् महातेजा युवनाश्वो महारथः
युवनाश्वसुतः श्रीमान् मान्धाता पृथिवीपतिः
मान्धातुस् तु सुतः श्रीमान् सुसंधिर् उदपद्यत
सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्
यशस्वी ध्रुवसंधेस् तु भरतो नाम नामतः
भरतात् तु महातेजा असितो नाम जायत
सह तेन गरेणैव जातः स सगरो ऽभवत्
सगरस्यासमञ्जस् तु असमञ्जाद् अथांशुमान्
दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः
भगीरथात् ककुत्स्थश् च ककुत्स्थस्य रघुस् तथा
रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः
कल्माषपादो ह्य् अभवत् तस्माज् जातस् तु शङ्खणः
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्
शीघ्रगस् त्व् अग्निवर्णस्य शीघ्रगस्य मरुः सुतः
मरोः प्रशुश्रुकस् त्व् आसीद् अम्बरीषः प्रशुश्रुकात्
अम्बरीषस्य पुत्रो ऽभून् नहुषः पृथिवीपतिः
नहुषस्य ययातिस् तु नाभागस् तु ययातिजः
नाभागस्य बभूवाज अजाद् दशरथो ऽभवत्
तस्माद् दशरथाज् जातौ भ्रातरौ रामलक्ष्मणौ
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्
रामलक्ष्मणयोर् अर्थे त्वत्सुते वरये नृप
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुम् अर्हसि
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0