रामायण · अध्याय 1.068
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः
राजा दशरथो हृष्टः सुमन्त्रम् इदम् अब्रवीत्
अद्य सर्वे धनाध्यक्षा धनम् आदाय पुष्कलम्
व्रजन्त्व् अग्रे सुविहिता नानारत्नसमन्विताः
चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः
ममाज्ञासमकालं च यानयुग्यम् अनुत्तमम्
वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः
मार्कण्डेयश् च दीर्घायुर् ऋषिः कात्यायनस् तथा
एते द्विजाः प्रयान्त्व् अग्रे स्यन्दनं योजयस्व मे
यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्
वचनाच् च नरेन्द्रस्य सा सेना चतुरङ्गिणी
राजानम् ऋषिभिः सार्धं व्रजन्तं पृष्ठतो ऽन्वगात्
गत्वा चतुरहं मार्गं विदेहान् अभ्युपेयिवान्
राजा तु जनकः श्रीमाञ् श्रुत्वा पूजाम् अकल्पयत्
ततो राजानम् आसाद्य वृद्धं दशरथं नृपम्
जनको मुदितो राजा हर्षं च परमं ययौ
उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम्
स्वागतं ते महाराज दिष्ट्या प्राप्तो ऽसि राघव
पुत्रयोर् उभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः
सह सर्वैर् द्विजश्रेष्ठैर् देवैर् इव शतक्रतुः
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्
राघवैः सह संबन्धाद् वीर्यश्रेष्ठैर् महात्मभिः
श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुम् अर्हसि
यज्ञस्यान्ते नरश्रेष्ठ विवाहम् ऋषिसंमतम्
तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्
प्रतिग्रहो दातृवशः श्रुतम् एतन् मया पुरा
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्
तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः
श्रुत्वा विदेहाधिपतिः परं विस्मयम् आगतः
ततः सर्वे मुनिगणाः परस्परसमागमे
हर्षेण महता युक्तास् तां निशाम् अवसन् सुखम्
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः
उवास परमप्रीतो जनकेन सुपूजितः
जनको ऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्
यज्ञस्य च सुताभ्यां च कृत्वा रात्रिम् उवास ह
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0