भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.067

1.067.001

जनकेन समादिष्टा दूतास् ते क्लान्तवाहनाः
त्रिरात्रम् उषित्वा मार्गे ते ऽयोध्यां प्राविशन् पुरीम्

1.067.002

ते राजवचनाद् दूता राजवेश्मप्रवेशिताः
ददृशुर् देवसंकाशं वृद्धं दशरथं नृपम्

1.067.003

बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः
राजानं प्रयता वाक्यम् अब्रुवन् मधुराक्षरम्

1.067.004

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्

1.067.005

मुहुर् मुहुर् मधुरया स्नेहसंयुक्तया गिरा
जनकस् त्वां महाराज पृच्छते सपुरःसरम्

1.067.006

पृष्ट्वा कुशलम् अव्यग्रं वैदेहो मिथिलाधिपः
कौशिकानुमते वाक्यं भवन्तम् इदम् अब्रवीत्

1.067.007

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा
राजानश् च कृतामर्षा निर्वीर्या विमुखीकृताः

1.067.008

सेयं मम सुता राजन् विश्वामित्र पुरःसरैः
यदृच्छयागतैर् वीरैर् निर्जिता तव पुत्रकैः

1.067.009

तच् च राजन् धनुर् दिव्यं मध्ये भग्नं महात्मना
रामेण हि महाराज महत्यां जनसंसदि

1.067.010

अस्मै देया मया सीता वीर्यशुल्का महात्मने
प्रतिज्ञां तर्तुम् इच्छामि तद् अनुज्ञातुम् अर्हसि

1.067.011

सोपाध्यायो महाराज पुरोहितपुरस्कृतः
शीघ्रम् आगच्छ भद्रं ते द्रष्टुम् अर्हसि राघवौ

1.067.012

प्रीतिं च मम राजेन्द्र निर्वर्तयितुम् अर्हसि
पुत्रयोर् उभयोर् एव प्रीतिं त्वम् अपि लप्स्यसे

1.067.013

एवं विदेहाधिपतिर् मधुरं वाक्यम् अब्रवीत्
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः

1.067.014

दूतवाक्यं तु तच् छ्रुत्वा राजा परमहर्षितः
वसिष्ठं वामदेवं च मन्त्रिणो ऽन्यांश् च सो ऽब्रवीत्

1.067.015

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्य् असौ

1.067.016

दृष्टवीर्यस् तु काकुत्स्थो जनकेन महात्मना
संप्रदानं सुतायास् तु राघवे कर्तुम् इच्छति

1.067.017

यदि वो रोचते वृत्तं जनकस्य महात्मनः
पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः

1.067.018

मन्त्रिणो बाढम् इत्य् आहुः सह सर्वैर् महर्षिभिः
सुप्रीतश् चाब्रवीद् राजा श्वो यात्रेति स मन्त्रिणः

1.067.019

मन्त्रिणस् तु नरेन्द्रस्य रात्रिं परमसत्कृताः
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc