रामायण · अध्याय 1.066
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः
धनुर् दर्शय रामाय इति होवाच पार्थिवम्
ततः स राजा जनकः सचिवान् व्यादिदेश ह
धनुर् आनीयतां दिव्यं गन्धमाल्यविभूषितम्
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम्
तद् धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया
नृपां शतानि पञ्चाशद् व्यायतानां महात्मनाम्
मञ्जूषाम् अष्टचक्रां तां समूहुस् ते कथं चन
ताम् आदाय तु मञ्जूषाम् आयतीं यत्र तद् धनुः
सुरोपमं ते जनकम् ऊचुर् नृपतिमन्त्रिणः
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः
मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि
तेषां नृपो वचः श्रुत्वा कृताञ्जलिर् अभाषत
विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ
इदं धनुर्वरं ब्रह्मञ् जनकैर् अभिपूजितम्
राजभिश् च महावीर्यैर् अशक्यं पूरितुं तदा
नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
क्व गतिर् मानुषाणां च धनुषो ऽस्य प्रपूरणे
आरोपणे समायोगे वेपने तोलने ऽपि वा
तद् एतद् धनुषां श्रेष्ठम् आनीतं मुनिपुंगव
दर्शयैतन् महाभाग अनयो राजपुत्रयोः
विश्वामित्रस् तु धर्मात्मा श्रुत्वा जनकभाषितम्
वत्स राम धनुः पश्य इति राघवम् अब्रवीत्
महर्षेर् वचनाद् रामो यत्र तिष्ठति तद् धनुः
मञ्जूषां ताम् अपावृत्य दृष्ट्वा धनुर् अथाब्रवीत्
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना
यत्नवांश् च भविष्यामि तोलने पूरणे ऽपि वा
बाढम् इत्य् एव तं राजा मुनिश् च समभाषत
लीलया स धनुर् मध्ये जग्राह वचनान् मुनेः
पश्यतां नृषहस्राणां बहूनां रघुनन्दनः
आरोपयत् स धर्मात्मा सलीलम् इव तद् धनुः
आरोपयित्वा मौर्वीं च पूरयाम् आस वीर्यवान्
तद् बभञ्ज धनुर् मध्ये नरश्रेष्ठो महायशाः
तस्य शब्दो महान् आसीन् निर्घातसमनिस्वनः
भूमिकम्पश् च सुमहान् पर्वतस्येव दीर्यतः
निपेतुश् च नराः सर्वे तेन शब्देन मोहिताः
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ
प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः
उवाच प्राञ्जलिर् वाक्यं वाक्यज्ञो मुनिपुंगवम्
भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः
अत्यद्भुतम् अचिन्त्यं च अतर्कितम् इदं मया
जनकानां कुले कीर्तिम् आहरिष्यति मे सुता
सीता भर्तारम् आसाद्य रामं दशरथात्मजम्
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक
सीता प्राणैर् बहुमता देया रामाय मे सुता
भवतो ऽनुमते ब्रह्मञ् शीघ्रं गच्छन्तु मन्त्रिणः
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः
राजानं प्रश्रितैर् वाक्यैर् आनयन्तु पुरं मम
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै
प्रीयमाणं तु राजानम् आनयन्तु सुशीघ्रगाः
कौशिकश् च तथेत्य् आह राजा चाभाष्य मन्त्रिणः
अयोध्यां प्रेषयाम् आस धर्मात्मा कृतशासनात्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0