भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.065

1.065.001

ततः प्रभाते विमले कृतकर्मा नराधिपः
विश्वामित्रं महात्मानम् आजुहाव सराघवम्

1.065.002

तम् अर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा
राघवौ च महात्मानौ तदा वाक्यम् उवाच ह

1.065.003

भगवन् स्वागतं ते ऽस्तु किं करोमि तवानघ
भवान् आज्ञापयतु माम् आज्ञाप्यो भवता ह्य् अहम्

1.065.004

एवम् उक्तः स धर्मात्मा जनकेन महात्मना
प्रत्युवाच मुनिर् वीरं वाक्यं वाक्यविशारदः

1.065.005

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ
द्रष्टुकामौ धनुः श्रेष्ठं यद् एतत् त्वयि तिष्ठति

1.065.006

एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ
दर्शनाद् अस्य धनुषो यथेष्टं प्रतियास्यतः

1.065.007

एवम् उक्तस् तु जनकः प्रत्युवाच महामुनिम्
श्रूयताम् अस्य धनुषो यद् अर्थम् इह तिष्ठति

1.065.008

देवरात इति ख्यातो निमेः षष्ठो महीपतिः
न्यासो ऽयं तस्य भगवन् हस्ते दत्तो महात्मना

1.065.009

दक्षयज्ञवधे पूर्वं धनुर् आयम्य वीर्यवान्
रुद्रस् तु त्रिदशान् रोषात् सलीलम् इदम् अब्रवीत्

1.065.010

यस्माद् भागार्थिनो भागान् नाकल्पयत मे सुराः
वराङ्गानि महार्हाणि धनुषा शातयामि वः

1.065.011

ततो विमनसः सर्वे देवा वै मुनिपुंगव
प्रसादयन्ति देवेशं तेषां प्रीतो ऽभवद् भवः

1.065.012

प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम्

1.065.013

तद् एतद् देवदेवस्य धनूरत्नं महात्मनः
न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वके विभो

1.065.014

अथ मे कृषतः क्षेत्रं लाङ्गलाद् उत्थिता मम
क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता

1.065.015

भूतलाद् उत्थिता सा तु व्यवर्धत ममात्मजा
वीर्यशुल्केति मे कन्या स्थापितेयम् अयोनिजा

1.065.016

भूतलाद् उत्थितां तां तु वर्धमानां ममात्मजाम्
वरयाम् आसुर् आगम्य राजानो मुनिपुंगव

1.065.017

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्
वीर्यशुल्केति भगवन् न ददामि सुताम् अहम्

1.065.018

ततः सर्वे नृपतयः समेत्य मुनिपुंगव
मिथिलाम् अभ्युपागम्य वीर्यं जिज्ञासवस् तदा

1.065.019

तेषां जिज्ञासमानानां वीर्यं धनुर् उपाहृतम्
न शेकुर् ग्रहणे तस्य धनुषस् तोलने ऽपि वा

1.065.020

तेषां वीर्यवतां वीर्यम् अल्पं ज्ञात्वा महामुने
प्रत्याख्याता नृपतयस् तन् निबोध तपोधन

1.065.021

ततः परमकोपेन राजानो मुनिपुंगव
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहम् आगताः

1.065.022

आत्मानम् अवधूतं ते विज्ञाय मुनिपुंगव
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्

1.065.023

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः
साधनानि मुनिरेष्ठ ततो ऽहं भृशदुःखितः

1.065.024

ततो देवगणान् सर्वांस् तपसाहं प्रसादयम्
ददुश् च परमप्रीताश् चतुरङ्गबलं सुराः

1.065.025

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः
अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः

1.065.026

तद् एतन् मुनिशार्दूल धनुः परमभास्वरम्
रामलक्ष्मणयोश् चापि दर्शयिष्यामि सुव्रत

1.065.027

यद्य् अस्य धनुषो रामः कुर्याद् आरोपणं मुने
सुताम् अयोनिजां सीतां दद्यां दाशरथेर् अहम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc