भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.064

1.064.001

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः
पूर्वां दिशम् अनुप्राप्य तपस् तेपे सुदारुणम्

1.064.002

मौनं वर्षसहस्रस्य कृत्वा व्रतम् अनुत्तमम्
चकाराप्रतिमं राम तपः परमदुष्करम्

1.064.003

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्
विघ्नैर् बहुभिर् आधूतं क्रोधो नान्तरम् आविशत्

1.064.004

ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः
मोहितास् तेजसा तस्य तपसा मन्दरश्मयः
कश्मलोपहताः सर्वे पितामहम् अथाब्रुवन्

1.064.005

बहुभिः कारणैर् देव विश्वामित्रो महामुनिः
लोभितः क्रोधितश् चैव तपसा चाभिवर्धते

1.064.006

न ह्य् अस्य वृजिनं किं चिद् दृश्यते सूक्ष्मम् अप्य् अथ
न दीयते यदि त्व् अस्य मनसा यद् अभीप्सितम्
विनाशयति त्रैलोक्यं तपसा सचराचरम्
व्याकुलाश् च दिशः सर्वा न च किं चित् प्रकाशते

1.064.007

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः
प्रकम्पते च पृथिवी वायुर् वाति भृशाकुलः

1.064.008

बुद्धिं न कुरुते यावन् नाशे देव महामुनिः
तावत् प्रसाद्यो भगवान् अग्निरूपो महाद्युतिः

1.064.009

कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यते ऽखिलम्
देवराज्ये चिकीर्षेत दीयताम् अस्य यन् मतम्

1.064.010

ततः सुरगणाः सर्वे पितामहपुरोगमाः
विश्वामित्रं महात्मानं वाक्यं मधुरम् अब्रुवन्

1.064.011

ब्रह्मर्षे स्वागतं ते ऽस्तु तपसा स्म सुतोषिताः
ब्राह्मण्यं तपसोग्रेण प्राप्तवान् असि कौशिक

1.064.012

दीर्घम् आयुश् च ते ब्रह्मन् ददामि समरुद्गणः
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्

1.064.013

पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम्
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः

1.064.014

ब्राह्मण्यं यदि मे प्राप्तं दीर्घम् आयुस् तथैव च
ओंकारो ऽथ वषट्कारो वेदाश् च वरयन्तु माम्

1.064.015

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदाम् अपि
ब्रह्मपुत्रो वसिष्ठो माम् एवं वदतु देवताः
यद्य् अयं परमः कामः कृतो यान्तु सुरर्षभाः

1.064.016

ततः प्रसादितो देवैर् वसिष्ठो जपतां वरः
सख्यं चकार ब्रह्मर्षिर् एवम् अस्त्व् इति चाब्रवीत्

1.064.017

ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव
इत्य् उक्त्वा देवताश् चापि सर्वा जग्मुर् यथागतम्

1.064.018

विश्वामित्रो ऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम्
पूजयाम् आस ब्रह्मर्षिं वसिष्ठं जपतां वरम्

1.064.019

कृतकामो महीं सर्वां चचार तपसि स्थितः
एवं त्व् अनेन ब्राह्मण्यं प्राप्तं राम महात्मना

1.064.020

एष राम मुनिश्रेष्ठ एष विग्रहवांस् तपः
एष धर्मः परो नित्यं वीर्यस्यैष परायणम्

1.064.021

शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ
जनकः प्राञ्जलिर् वाक्यम् उवाच कुशिकात्मजम्

1.064.022

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव
यज्ञं काकुत्स्थ सहितः प्राप्तवान् असि धार्मिक

1.064.023

पावितो ऽहं त्वया ब्रह्मन् दर्शनेन महामुने
गुणा बहुविधाः प्राप्तास् तव संदर्शनान् मया

1.064.024

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत् तपः
श्रुतं मया महातेजो रामेण च महात्मना

1.064.025

सदस्यैः प्राप्य च सदः श्रुतास् ते बहवो गुणाः

1.064.026

अप्रमेयं तपस् तुभ्यम् अप्रमेयं च ते बलम्
अप्रमेया गुणाश् चैव नित्यं ते कुशिकात्मज

1.064.027

तृप्तिर् आश्चर्यभूतानां कथानां नास्ति मे विभो
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्

1.064.028

श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि मां पुनः
स्वागतं तपसां श्रेष्ठ माम् अनुज्ञातुम् अर्हसि

1.064.029

एवम् उक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः

1.064.030

विश्वामित्रो ऽपि धर्मात्मा सहरामः सलक्ष्मणः
स्वं वाटम् अभिचक्राम पूज्यमानो महर्षिभिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc