भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.063

1.063.001

सुरकार्यम् इदं रम्भे कर्तव्यं सुमहत् त्वया
लोभनं कौशिकस्येह काममोहसमन्वितम्

1.063.002

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता
व्रीडिता प्राञ्जलिर् भूत्वा प्रत्युवाच सुरेश्वरम्

1.063.003

अयं सुरपते घोरो विश्वामित्रो महामुनिः
क्रोधम् उत्स्रक्ष्यते घोरं मयि देव न संशयः
ततो हि मे भयं देव प्रसादं कर्तुम् अर्हसि

1.063.004

ताम् उवाच सहस्राक्षो वेपमानां कृताञ्जलिम्
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम्

1.063.005

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः

1.063.006

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्
तम् ऋषिं कौशिकं रम्भे भेदयस्व तपस्विनम्

1.063.007

सा श्रुत्वा वचनं तस्य कृत्वा रूपम् अनुत्तमम्
लोभयाम् आस ललिता विश्वामित्रं शुचिस्मिता

1.063.008

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्
संप्रहृष्टेन मनसा तत एनाम् उदैक्षत

1.063.009

अथ तस्य च शब्देन गीतेनाप्रतिमेन च
दर्शनेन च रम्भाया मुनिः संदेहम् आगतः

1.063.010

सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः

1.063.011

यन् मां लोभयसे रम्भे कामक्रोधजयैषिणम्
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे

1.063.012

ब्राह्मणः सुमहातेजास् तपोबलसमन्वितः
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्

1.063.013

एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः
अशक्नुवन् धारयितुं कोपं संतापम् आगतः

1.063.014

तस्य शापेन महता रम्भा शैली तदाभवत्
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः

1.063.015

कोपेन स महातेजास् तपो ऽपहरणे कृते
इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc