भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.062

1.062.001

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः

1.062.002

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः
ऋषिस् त्वम् असि भद्रं ते स्वार्जितैः कर्मभिः शुभैः

1.062.003

तम् एवम् उक्त्वा देवेशस् त्रिदिवं पुनर् अभ्यगात्
विश्वामित्रो महातेजा भूयस् तेपे महत् तपः

1.062.004

ततः कालेन महता मेनका परमाप्सराः
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे

1.062.005

तां ददर्श महातेजा मेनकां कुशिकात्मजः
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा

1.062.006

दृष्ट्वा कन्दर्पवशगो मुनिस् ताम् इदम् अब्रवीत्
अप्सरः स्वागतं ते ऽस्तु वस चेह ममाश्रमे
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्

1.062.007

इत्य् उक्ता सा वरारोहा तत्रावासम् अथाकरोत्
तपसो हि महाविघ्नो विश्वामित्रम् उपागतः

1.062.008

तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव
विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः

1.062.009

अथ काले गते तस्मिन् विश्वामित्रो महामुनिः
सव्रीड इव संवृत्तश् चिन्ताशोकपरायणः

1.062.010

बुद्धिर् मुनेः समुत्पन्ना सामर्षा रघुनन्दन
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्

1.062.011

अहोरात्रापदेशेन गताः संवत्सरा दश
काममोहाभिभूतस्य विघ्नो ऽयं प्रत्युपस्थितः

1.062.012

विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः

1.062.013

भीताम् अप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्
मेनकां मधुरैर् वाक्यैर् विसृज्य कुशिकात्मजः
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह

1.062.014

स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः
कौशिकीतीरम् आसाद्य तपस् तेपे सुदारुणम्

1.062.015

तस्य वर्षसहस्रं तु घोरं तप उपासतः
उत्तरे पर्वते राम देवतानाम् अभूद् भयम्

1.062.016

अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः
महर्षिशब्दं लभतां साध्व् अयं कुशिकात्मजः

1.062.017

देवतानां वचः श्रुत्वा सर्वलोकपितामहः
अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम्

1.062.018

महर्षे स्वागतं वत्स तपसोग्रेण तोषितः
महत्त्वम् ऋषिमुख्यत्वं ददामि तव कौशिक

1.062.019

ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस् तपोधनः
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्

1.062.020

ब्रह्मर्षि शब्दम् अतुलं स्वार्जितैः कर्मभिः शुभैः
यदि मे भगवान् आह ततो ऽहं विजितेन्द्रियः

1.062.021

तम् उवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः
यतस्व मुनिशार्दूल इत्य् उक्त्वा त्रिदिवं गतः

1.062.022

विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः
ऊर्ध्वबाहुर् निरालम्बो वायुभक्षस् तपश् चरन्

1.062.023

धर्मे पञ्चतपा भूत्वा वर्षास्व् आकाशसंश्रयः
शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः

1.062.024

एवं वर्षसहस्रं हि तपो घोरम् उपागमत्

1.062.025

तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ
संभ्रमः सुमहान् आसीत् सुराणां वासवस्य च

1.062.026

रम्भाम् अप्सरसं शक्रः सह सर्वैर् मरुद्गणैः
उवाचात्महितं वाक्यम् अहितं कौशिकस्य च

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc