रामायण · अध्याय 1.061
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन
तस्य विश्रममाणस्य शुनःशेपो महायशाः
पुष्करं श्रेष्ठम् आगम्य विश्वामित्रं ददर्श ह
विषण्णवदनो दीनस् तृष्णया च श्रमेण च
पपाताङ्के मुने राम वाक्यं चेदम् उवाच ह
न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः
त्रातुम् अर्हसि मां सौम्य धर्मेण मुनिपुंगव
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः
राजा च कृतकार्यः स्याद् अहं दीर्घायुर् अव्ययः
स्वर्गलोकम् उपाश्नीयां तपस् तप्त्वा ह्य् अनुत्तमम्
स मे नाथो ह्य् अनाथस्य भव भव्येन चेतसा
पितेव पुत्रं धर्मात्मंस् त्रातुम् अर्हसि किल्बिषात्
तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः
सान्त्वयित्वा बहुविधं पुत्रान् इदम् उवाच ह
यत्कृते पितरः पुत्राञ् जनयन्ति शुभार्थिनः
परलोकहितार्थाय तस्य कालो ऽयम् आगतः
अयं मुनिसुतो बालो मत्तः शरणम् इच्छति
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः
पशुभूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत
नाथवांश् च शुनःशेपो यज्ञश् चाविघ्नतो भवेत्
देवतास् तर्पिताश् च स्युर् मम चापि कृतं वचः
मुनेस् तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः
साभिमानं नरश्रेष्ठ सलीलम् इदम् अब्रुवन्
कथम् आत्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो
अकार्यम् इव पश्यामः श्वमांसम् इव भोजने
तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः
क्रोधसंरक्तनयनो व्याहर्तुम् उपचक्रमे
निःसाध्वसम् इदं प्रोक्तं धर्माद् अपि विगर्हितम्
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु
पूर्णं वर्षसहस्रं तु पृथिव्याम् अनुवत्स्यथ
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस् तदा
शुनःशेपम् उवाचार्तं कृत्वा रक्षां निरामयाम्
पवित्रपाशैर् आसक्तो रक्तमाल्यानुलेपनः
वैष्णवं यूपम् आसाद्य वाग्भिर् अग्निम् उदाहर
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक
अम्बरीषस्य यज्ञे ऽस्मिंस् ततः सिद्धिम् अवाप्स्यसि
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः
त्वरया राजसिंहं तम् अम्बरीषम् उवाच ह
राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः
निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर
तद् वाक्यम् ऋषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः
जगाम नृपतिः शीघ्रं यज्ञवाटम् अतन्द्रितः
सदस्यानुमते राजा पवित्रकृतलक्षणम्
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्
स बद्धो वाग्भिर् अग्र्याभिर् अभितुष्टाव वै सुरौ
इन्द्रम् इन्द्रानुजं चैव यथावन् मुनिपुत्रकः
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः
दीर्घम् आयुस् तदा प्रादाच् छुनःशेपाय राघव
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्
फलं बहुगुणं राम सहस्राक्षप्रसादजम्
विश्वामित्रो ऽपि धर्मात्मा भूयस् तेपे महातपाः
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0