रामायण · अध्याय 1.060
विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन्
अब्रवीन् नरशार्दूल सर्वांस् तान् वनवासिनः
महाविघ्नः प्रवृत्तो ऽयं दक्षिणाम् आस्थितो दिशम्
दिशम् अन्यां प्रपत्स्यामस् तत्र तप्स्यामहे तपः
पश्चिमायां विशालायां पुष्करेषु महात्मनः
सुखं तपश् चरिष्यामः परं तद् धि तपोवनम्
एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः
तप उग्रं दुराधर्षं तेपे मूलफलाशनः
एतस्मिन्न् एव काले तु अयोध्याधिपतिर् नृपः
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे
तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह
प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत्
पशुर् अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात्
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
प्रायश्चित्तं महद् ध्य् एतन् नरं वा पुरुषर्षभ
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते
उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः
देशाञ् जनपदांस् तांस् तान् नगराणि वनानि च
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
स पुत्रसहितं तात सभार्यं रघुनन्दन
भृगुतुङ्गे समासीनम् ऋचीकं संददर्श ह
तम् उवाच महातेजाः प्रणम्याभिप्रसाद्य च
ब्रह्मर्षिं तपसा दीप्तं राजर्षिर् अमितप्रभः
पृष्ट्वा सर्वत्र कुशलम् ऋचीकं तम् इदं वचः
गवां शतसहस्रेण विक्रिणीषे सुतं यदि
पशोर् अर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव
सर्वे परिसृता देशा यज्ञियं न लभे पशुम्
दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम
एवम् उक्तो महातेजा ऋचीकस् त्व् अब्रवीद् वचः
नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
उवाच नरशार्दूलम् अम्बरीषं तपस्विनी
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः
मातॄणां च कनीयांसस् तस्माद् रक्षे कनीयसं
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च
शुनःशेपः स्वयं राम मध्यमो वाक्यम् अब्रवीत्
पिता ज्येष्ठम् अविक्रेयं माता चाह कनीयसं
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्
गवां शतसहस्रेण शुनःशेपं नरेश्वरः
गृहीत्वा परमप्रीतो जगाम रघुनन्दन
अम्बरीषस् तु राजर्षी रथम् आरोप्य सत्वरः
शुनःशेपं महातेजा जगामाशु महायशाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0