भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.059

1.059.001

तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्
ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत

1.059.002

अयम् इक्ष्वाकुदायादस् त्रिशङ्कुर् इति विश्रुतः
धर्मिष्ठश् च वदान्यश् च मां चैव शरणं गतः
स्वेनानेन शरीरेण देवलोकजिगीषया

1.059.003

यथायं स्वशरीरेण देवलोकं गमिष्यति
तथा प्रवर्त्यतां यज्ञो भवद्भिश् च मया सह

1.059.004

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्

1.059.005

अयं कुशिकदायादो मुनिः परमकोपनः
यद् आह वचनं सम्यग् एतत् कार्यं न संशयः

1.059.006

अग्निकल्पो हि भगवाञ् शापं दास्यति रोषितः
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्
गच्छेद् इक्ष्वाकुदायादो विश्वामित्रस्य तेजसा

1.059.007

ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते

1.059.008

एवम् उक्त्वा महर्षयः संजह्रुस् ताः क्रियास् तदा
याजकाश् च महातेजा विश्वामित्रो ऽभवत् क्रतौ

1.059.009

ऋत्विजश् चानुपूर्व्येण मन्त्रवन् मन्त्रकोविदाः
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि

1.059.010

ततः कालेन महता विश्वामित्रो महातपाः
चकारावाहनं तत्र भागार्थं सर्वदेवताः

1.059.011

नाह्यागमंस् तदाहूता भागार्थं सर्वदेवताः
ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः

1.059.012

स्रुवम् उद्यम्य सक्रोधस् त्रिशङ्कुम् इदम् अब्रवीत्
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर

1.059.013

एष त्वां स्वशरीरेण नयामि स्वर्गम् ओजसा
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप

1.059.014

स्वार्जितं किं चिद् अप्य् अस्ति मया हि तपसः फलम्
राजंस् त्वं तेजसा तस्य सशरीरो दिवं व्रज

1.059.015

उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा

1.059.016

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः
सह सर्वैः सुरगणैर् इदं वचनम् अब्रवीत्

1.059.017

त्रिशङ्को गच्छ भूयस् त्वं नासि स्वर्गकृतालयः
गुरुशापहतो मूढ पत भूमिम् अवाक्शिराः

1.059.018

एवम् उक्तो महेन्द्रेण त्रिशङ्कुर् अपतत् पुनः
विक्रोशमानस् त्राहीति विश्वामित्रं तपोधनम्

1.059.019

तच् छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः
रोषम् आहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्

1.059.020

ऋषिमध्ये स तेजस्वी प्रजापतिर् इवापरः
सृजन् दक्षिणमार्गस्थान् सप्तर्षीन् अपरान् पुनः

1.059.021

नक्षत्रमालाम् अपराम् असृजत् क्रोधमूर्छितः
दक्षिणां दिशम् आस्थाय मुनिमध्ये महायशाः

1.059.022

सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः
अन्यम् इन्द्रं करिष्यामि लोको वा स्याद् अनिन्द्रकः
दैवतान्य् अपि स क्रोधात् स्रष्टुं समुपचक्रमे

1.059.023

ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः
विश्वामित्रं महात्मानम् ऊचुः सानुनयं वचः

1.059.024

अयं राजा महाभाग गुरुशापपरिक्षतः
सशरीरो दिवं यातुं नार्हत्य् एव तपोधन

1.059.025

तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः
अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः

1.059.026

सशरीरस्य भद्रं वस् त्रिशङ्कोर् अस्य भूपतेः
आरोहणं प्रतिज्ञाय नानृतं कर्तुम् उत्सहे

1.059.027

सर्गो ऽस्तु सशरीरस्य त्रिशङ्कोर् अस्य शाश्वतः
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्य् अथ

1.059.028

यावल् लोका धरिष्यन्ति तिष्ठन्त्व् एतानि सर्वशः
मत्कृतानि सुराः सर्वे तद् अनुज्ञातुम् अर्हथ

1.059.029

एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् मुनिपुंगवम्

1.059.030

एवं भवतु भद्रं ते तिष्ठन्त्व् एतानि सर्वशः
गगने तान्य् अनेकानि वैश्वानरपथाद् बहिः

1.059.031

नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्
अवाक्शिरास् त्रिशङ्कुश् च तिष्ठत्व् अमरसंनिभः

1.059.032

विश्वामित्रस् तु धर्मात्मा सर्वदेवैर् अभिष्टुतः
ऋषिभिश् च महातेजा बाढम् इत्य् आह देवताः

1.059.033

ततो देवा महात्मानो मुनयश् च तपोधनाः
जग्मुर् यथागतं सर्वे यज्ञस्यान्ते नरोत्तम

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc