भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.058

1.058.001

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः
अब्रवीन् मधुरं वाक्यं साक्षाच् चण्डालरूपिणम्

1.058.002

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्
शरणं ते भविष्यामि मा भैषीर् नृपपुंगव

1.058.003

अहम् आमन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः
यज्ञसाह्यकरान् राजंस् ततो यक्ष्यसि निर्वृतः

1.058.004

गुरुशापकृतं रूपं यद् इदं त्वयि वर्तते
अनेन सह रूपेण सशरीरो गमिष्यसि

1.058.005

हस्तप्राप्तम् अहं मन्ये स्वर्गं तव नरेश्वर
यस् त्वं कौशिकम् आगम्य शरण्यं शरणं गतः

1.058.006

एवम् उक्त्वा महातेजाः पुत्रान् परमधार्मिकान्
व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात्

1.058.007

सर्वाञ् शिष्यान् समाहूय वाक्यम् एतद् उवाच ह

1.058.008

सर्वान् ऋषिवरान् वत्सा आनयध्वं ममाज्ञया
सशिष्यान् सुहृदश् चैव सर्त्विजः सुबहुश्रुतान्

1.058.009

यद् अन्यो वचनं ब्रूयान् मद्वाक्यबलचोदितः
तत् सर्वम् अखिलेनोक्तं ममाख्येयम् अनादृतम्

1.058.010

तस्य तद् वचनं श्रुत्वा दिशो जग्मुस् तदाज्ञया
आजग्मुर् अथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः

1.058.011

ते च शिष्याः समागम्य मुनिं ज्वलिततेजसं
ऊचुश् च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्

1.058.012

श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्

1.058.013

वासिष्ठं तच् छतं सर्वं क्रोधपर्याकुलाक्षरम्
यद् आह वचनं सर्वं शृणु त्वं मुनिपुंगव

1.058.014

क्षत्रियो याजको यस्य चण्डालस्य विशेषतः
कथं सदसि भोक्तारो हविस् तस्य सुरर्षयः

1.058.015

ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः

1.058.016

एतद् वचनं नैष्ठुर्यम् ऊचुः संरक्तलोचनाः
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः

1.058.017

तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः
क्रोधसंरक्तनयनः सरोषम् इदम् अब्रवीत्

1.058.018

यद् दूषयन्त्य् अदुष्टं मां तप उग्रं समास्थितम्
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः

1.058.019

अद्य ते कालपाशेन नीता वैवस्वतक्षयम्
सप्तजातिशतान्य् एव मृतपाः सन्तु सर्वशः

1.058.020

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः
विकृताश् च विरूपाश् च लोकान् अनुचरन्त्व् इमान्

1.058.021

महोदयश् च दुर्बुद्धिर् माम् अदूष्यं ह्य् अदूषयत्
दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति

1.058.022

प्राणातिपातनिरतो निरनुक्रोशतां गतः
दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति

1.058.023

एतावद् उक्त्वा वचनं विश्वामित्रो महातपाः
विरराम महातेजा ऋषिमध्ये महामुनिः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc