रामायण · अध्याय 1.057
ततस् त्रिशङ्कोर् वचनं श्रुत्वा क्रोधसमन्वितम्
ऋषिपुत्रशतं राम राजानम् इदम् अब्रवीत्
प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्यवादिना
तं कथं समतिक्रम्य शाखान्तरम् उपेयिवान्
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः
अशक्यम् इति चोवाच वसिष्ठो भगवान् ऋषिः
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव
बालिशस् त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः
याजने भगवाञ् शक्तस् त्रैलोक्यस्यापि पार्थिव
तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्
स राजा पुनर् एवैतान् इदं वचनम् अब्रवीत्
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च
अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः
ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम्
शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि
एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम्
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः
चित्यमाल्यानुलेपश् च आयसाभरणो ऽभवत्
तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम्
प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः
एको हि राजा काकुत्स्थ जगाम परमात्मवान्
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्
विश्वामित्रस् तु तं दृष्ट्वा राजानं विफलीकृतम्
चण्डालरूपिणं राम मुनिः कारुण्यम् आगतः
कारुण्यात् स महातेजा वाक्यं परम धार्मिकः
इदं जगाद भद्रं ते राजानं घोरदर्शनम्
किम् आगमनकार्यं ते राजपुत्र महाबल
अयोध्याधिपते वीर शापाच् चण्डालतां गतः
अथ तद् वाक्यम् आकर्ण्य राजा चण्डालतां गतः
अब्रवीत् प्राञ्जलिर् वाक्यं वाक्यज्ञो वाक्यकोविदम्
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः
सशरीरो दिवं यायाम् इति मे सौम्यदर्शनम्
मया चेष्टं क्रतुशतं तच् च नावाप्यते फलम्
अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन
कृच्छ्रेष्व् अपि गतः सौम्य क्षत्रधर्मेण ते शपे
यज्ञैर् बहुविधैर् इष्टं प्रजा धर्मेण पालिताः
गुरवश् च महात्मानः शीलवृत्तेन तोषिताः
धर्मे प्रयतमानस्य यज्ञं चाहर्तुम् इच्छतः
परितोषं न गच्छन्ति गुरवो मुनिपुंगव
दैवम् एव परं मन्ये पौरुषं तु निरर्थकम्
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः
तस्य मे परमार्तस्य प्रसादम् अभिकाङ्क्षतः
कर्तुम् अर्हसि भद्रं ते दैवोपहतकर्मणः
नान्यां गतिं गमिष्यामि नान्यः शरणम् अस्ति मे
दैवं पुरुषकारेण निवर्तयितुम् अर्हसि
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0