रामायण · अध्याय 1.056
ततः संतप्तहृदयः स्मरन् निग्रहम् आत्मनः
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना
स दक्षिणां दिशं गत्वा महिष्या सह राघव
तताप परमं घोरं विश्वामित्रो महातपाः
फलमूलाशनो दान्तश् चचार परमं तपः
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः
अब्रवीन् मधुरं वाक्यं विश्वामित्रं तपोधनम्
जिता राजर्षिलोकास् ते तपसा कुशिकात्मज
अनेन तपसा त्वां हि राजर्षिर् इति विद्महे
एवम् उक्त्वा महातेजा जगाम सह दैवतैः
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः
विश्वामित्रो ऽपि तच् छ्रुत्वा ह्रिया किं चिद् अवाङ्मुखः
दुःखेन महताविष्टः समन्युर् इदम् अब्रवीत्
तपश् च सुमहत् तप्तं राजर्षिर् इति मां विदुः
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम्
एवं निश्चित्य मनसा भूय एव महातपाः
तपश् चचार काकुत्स्थ परमं परमात्मवान्
एतस्मिन्न् एव काले तु सत्यवादी जितेन्द्रियः
त्रिशङ्कुर् इति विख्यात इक्ष्वाकु कुलनन्दनः
तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव
गच्छेयं स्वशरीरेण देवानां परमां गतिम्
स वसिष्ठं समाहूय कथयाम् आस चिन्तितम्
अशक्यम् इति चाप्य् उक्तो वसिष्ठेन महात्मना
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्
वसिष्ठा दीर्घ तपसस् तपो यत्र हि तेपिरे
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्
वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः
सो ऽभिगम्य महात्मानः सर्वान् एव गुरोः सुतान्
अभिवाद्यानुपूर्व्येण ह्रिया किं चिद् अवाङ्मुखः
अब्रवीत् सुमहातेजाः सर्वान् एव कृताञ्जलिः
शरणं वः प्रपद्ये ऽहं शरण्याञ् शरणागतः
प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना
यष्टुकामो महायज्ञं तद् अनुज्ञातुम् अर्थथ
गुरुपुत्रान् अहं सर्वान् नमस्कृत्य प्रसादये
शिरसा प्रणतो याचे ब्राह्मणांस् तपसि स्थितान्
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः
सशरीरो यथाहं हि देवलोकम् अवाप्नुयाम्
प्रत्याख्यातो वसिष्ठेन गतिम् अन्यां तपोधनाः
गुरुपुत्रान् ऋते सर्वान् नाहं पश्यामि कां चन
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः
तस्माद् अनन्तरं सर्वे भवन्तो दैवतं मम
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0