रामायण · अध्याय 1.055
एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः
आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्
वसिष्ठो भगवान् क्रोधाद् इदं वचनम् अब्रवीत्
क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलं तद् विदर्शय
नाशयाम्य् एष ते दर्पं शस्त्रस्य तव गाधिज
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन
तस्यास्त्रं गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम्
ब्रह्मदण्डेन तच् छान्तम् अग्नेर् वेग इवाम्भसा
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा
ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा
जृम्भणं मोहनं चैव संतापनविलापने
शोषणं दारणं चैव वज्रम् अस्त्रं सुदुर्जयम्
ब्रह्मपाशं कालपाशं वारुणं पाशम् एव च
पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा
दण्डास्त्रम् अथ पैशाचं क्रौञ्चम् अस्त्रं तथैव च
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च
वायव्यं मथनं चैव अस्त्रं हयशिरस् तथा
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा
वैद्याधरं महास्त्रं च कालास्त्रम् अथ दारुणम्
त्रिशूलम् अस्त्रं घोरं च कापालम् अथ कङ्कणम्
एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन
वसिष्ठे जपतां श्रेष्ठे तद् अद्भुतम् इवाभवत्
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः
तद् अस्त्रम् उद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः
देवर्षयश् च संभ्रान्ता गन्धर्वाः समहोरगाः
त्रैलोक्यम् आसीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते
तद् अप्य् अस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः
त्रैलोक्यमोहनं रौद्रं रूपम् आसीत् सुदारुणम्
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः
मरीच्य इव निष्पेतुर् अग्नेर् धूमाकुलार्चिषः
प्राज्वलद् ब्रह्मदण्डश् च वसिष्ठस्य करोद्यतः
विधूम इव कालाग्निर् यमदण्ड इवापरः
ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्
अमोघं ते बलं ब्रह्मंस् तेजो धारय तेजसा
निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महातपाः
प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः
एवम् उक्तो महातेजाः शमं चक्रे महातपाः
विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदम् अब्रवीत्
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे
तद् एतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः
तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारकम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0