भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.054

1.054.001

ततस् तान् आकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्
वसिष्ठश् चोदयाम् आस कामधुक् सृज योगतः

1.054.002

तस्या हुम्भारवाज् जाताः काम्बोजा रविसंनिभाः
ऊधसस् त्व् अथ संजाताः पह्लवाः शस्त्रपाणयः

1.054.003

योनिदेशाच् च यवनः शकृद्देशाच् छकास् तथा
रोमकूपेषु मेच्छाश् च हरीताः सकिरातकाः

1.054.004

तैस् तन् निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात्
सपदातिगजं साश्वं सरथं रघुनन्दन

1.054.005

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना
विश्वामित्रसुतानां तु शतं नानाविधायुधम्

1.054.006

अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्
हुंकारेणैव तान् सर्वान् निर्ददाह महान् ऋषिः

1.054.007

ते साश्वरथपादाता वसिष्ठेन महात्मना
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास् तदा

1.054.008

दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः
सव्रीडश् चिन्तयाविष्टो विश्वामित्रो ऽभवत् तदा

1.054.009

संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः

1.054.010

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः
हतदर्पो हतोत्साहो निर्वेदं समपद्यत

1.054.011

स पुत्रम् एकं राज्याय पालयेति नियुज्य च
पृथिवीं क्षत्रधर्मेण वनम् एवान्वपद्यत

1.054.012

स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम्
महादेवप्रसादार्थं तपस् तेपे महातपाः

1.054.013

केन चित् त्व् अथ कालेन देवेशो वृषभध्वजः
दर्शयाम् आस वरदो विश्वामित्रं महामुनिम्

1.054.014

किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्
वरदो ऽस्मि वरो यस् ते काङ्क्षितः सो ऽभिधीयताम्

1.054.015

एवम् उक्तस् तु देवेन विश्वामित्रो महातपाः
प्रणिपत्य महादेवम् इदं वचनम् अब्रवीत्

1.054.016

यदि तुष्टो महादेव धनुर्वेदो ममानघ
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्

1.054.017

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ

1.054.018

तव प्रसादाद् भवतु देवदेव ममेप्सितम्
एवम् अस्त्व् इति देवेशो वाक्यम् उक्त्वा दिवं गतः

1.054.019

प्राप्य चास्त्राणि राजर्षिर् विश्वामित्रो महाबलः
दर्पेण महता युक्तो दर्पपूर्णो ऽभवत् तदा

1.054.020

विवर्धमानो वीर्येण समुद्र इव पर्वणि
हतम् एव तदा मेने वसिष्ठम् ऋषिसत्तमम्

1.054.021

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः
यैस् तत् तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा

1.054.022

उदीर्यमाणम् अस्त्रं तद् विश्वामित्रस्य धीमतः
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः

1.054.023

वसिष्ठस्य च ये शिष्यास् तथैव मृगपक्षिणः
विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः

1.054.024

वसिष्ठस्याश्रमपदं शून्यम् आसीन् महात्मनः
मुहूर्तम् इव निःशब्दम् आसीद् ईरिणसंनिभम्

1.054.025

वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर् मुहुः
नाशयाम्य् अद्य गाधेयं नीहारम् इव भास्करः

1.054.026

एवम् उक्त्वा महातेजा वसिष्ठो जपतां वरः
विश्वामित्रं तदा वाक्यं सरोषम् इदम् अब्रवीत्

1.054.027

आश्रमं चिरसंवृद्धं यद् विनाशितवान् असि
दुराचारो ऽसि यन् मूढ तस्मात् त्वं न भविष्यसि

1.054.028

इत्य् उक्त्वा परमक्रुद्धो दण्डम् उद्यम्य सत्वरः
विधूम इव कालाग्निर् यमदण्डम् इवापरम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc