भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.053

1.053.001

कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः
तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत

1.053.002

नीयमाना तु शबला राम राज्ञा महात्मना
दुःखिता चिन्तयाम् आस रुदन्ती शोककर्शिता

1.053.003

परित्यक्ता वसिष्ठेन किम् अहं सुमहात्मना
याहं राजभृतैर् दीना ह्रियेयं भृशदुःखिता

1.053.004

किं मयापकृतं तस्य महर्षेर् भावितात्मनः
यन् माम् अनागसं भक्ताम् इष्टां त्यजति धार्मिकः

1.053.005

इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः
जगाम वेगेन तदा वसिष्ठं परमौजसं

1.053.006

निर्धूय तांस् तदा भृत्याञ् शतशः शत्रुसूदन
जगामानिलवेगेन पादमूलं महात्मनः

1.053.007

शबला सा रुदन्ती च क्रोशन्ती चेदम् अब्रवीत्
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी

1.053.008

भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत
यस्माद् राजभृता मां हि नयन्ते त्वत्सकाशतः

1.053.009

एवम् उक्तस् तु ब्रह्मर्षिर् इदं वचनम् अब्रवीत्
शोकसंतप्तहृदयां स्वसारम् इव दुःखिताम्

1.053.010

न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया
एष त्वां नयते राजा बलान् मत्तो महाबलः

1.053.011

न हि तुल्यं बलं मह्यं राजा त्व् अद्य विशेषतः
बली राजा क्षत्रियश् च पृथिव्याः पतिर् एव च

1.053.012

इयम् अक्षौहिणीपूर्णा सवाजिरथसंकुला
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः

1.053.013

एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत्
वचनं वचनज्ञा सा ब्रह्मर्षिम् अमितप्रभम्

1.053.014

न बलं क्षत्रियस्याहुर् ब्राह्मणो बलवत्तरः
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात् तु बलवत्तरम्

1.053.015

अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः
विश्वामित्रो महावीर्यस् तेजस् तव दुरासदम्

1.053.016

नियुङ्क्ष्व मां महातेजस् त्वद्ब्रह्मबलसंभृताम्
तस्य दर्पं बलं यत् तन् नाशयामि दुरात्मनः

1.053.017

इत्य् उक्तस् तु तया राम वसिष्ठः सुमहायशाः
सृजस्वेति तदोवाच बलं परबलारुजम्

1.053.018

तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः

1.053.019

स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः
पह्लवान् नाशयाम् आस शस्त्रैर् उच्चावचैर् अपि

1.053.020

विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ् शतशस् तदा
भूय एवासृजद् घोराञ् शकान् यवनमिश्रितान्

1.053.021

तैर् आसीत् संवृता भूमिः शकैर् यवनमिश्रितैः
प्रभावद्भिर् महावीर्यैर् हेमकिञ्जल्कसंनिभैः

1.053.022

दीर्घासिपट्टिशधरैर् हेमवर्णाम्बरावृतैः
निर्दग्धं तद् बलं सर्वं प्रदीप्तैर् इव पावकैः

1.053.023

ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc