रामायण · अध्याय 1.052
एवम् उक्ता वसिष्ठेन शबला शत्रुसूदन
विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम्
इक्षून् मधूंस् तथा लाजान् मैरेयांश् च वरासवान्
पानानि च महार्हाणि भक्ष्यांश् चोच्चावचांस् तथा
उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः
मृष्टान्नानि च सूपाश् च दधिकुल्यास् तथैव च
नानास्वादुरसानां च षाडवानां तथैव च
भाजनानि सुपूर्णानि गौडानि च सहस्रशः
सर्वम् आसीत् सुसंतुष्टं हृष्टपुष्टजनाकुलम्
विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्
विश्वामित्रो ऽपि राजर्षिर् हृष्टपुष्टस् तदाभवत्
सान्तः पुरवरो राजा सब्राह्मणपुरोहितः
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस् तदा
युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत्
पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः
श्रूयताम् अभिधास्यामि वाक्यं वाक्यविशारद
गवां शतसहस्रेण दीयतां शबला मम
रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः
तस्मान् मे शबलां देहि ममैषा धर्मतो द्विज
एवम् उक्तस् तु भगवान् वसिष्ठो मुनिसत्तमः
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्
नाहं शतसहस्रेण नापि कोटिशतैर् गवाम्
राजन् दास्यामि शबलां राशिभी रजतस्य वा
न परित्यागम् अर्हेयं मत्सकाशाद् अरिंदम
शाश्वती शबला मह्यं कीर्तिर् आत्मवतो यथा
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च
आयत्तम् अग्निहोत्रं च बलिर् होमस् तथैव च
स्वाहाकारवषट्कारौ विद्याश् च विविधास् तथा
आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः
सर्व स्वम् एतत् सत्येन मम तुष्टिकरी सदा
कारणैर् बहुभी राजन् न दास्ये शबलां तव
वसिष्ठेनैवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः
संरब्धतरम् अत्यर्थं वाक्यं वाक्यविशारदः
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान्
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्
ददामि ते शतान्य् अष्टौ किङ्किणीकविभूषितान्
हयानां देशजातानां कुलजानां महौजसाम्
सहस्रम् एकं दश च ददामि तव सुव्रत
नानावर्णविभक्तानां वयःस्थानां तथैव च
ददाम्य् एकां गवां कोटिं शबला दीयतां मम
एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता
न दास्यामीति शबलां प्राह राजन् कथं चन
एतद् एव हि मे रत्नम् एतद् एव हि मे धनम्
एतद् एव हि सर्वस्वम् एतद् एव हि जीवितम्
दर्शश् च पूर्णमासश् च यज्ञाश् चैवाप्तदक्षिणाः
एतद् एव हि मे राजन् विविधाश् च क्रियास् तथा
अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः
बहूनां किं प्रलापेन न दास्ये कामदोहिनीम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0