भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.051

1.051.001

स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः
प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम्

1.051.002

स्वागतं तव चेत्य् उक्तो वसिष्ठेन महात्मना
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह

1.051.003

उपविष्टाय च तदा विश्वामित्राय धीमते
यथान्यायं मुनिवरः फलमूलम् उपाहरत्

1.051.004

प्रतिगृह्य च तां पूजां वसिष्ठाद् राजसत्तमः
तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत

1.051.005

विश्वामित्रो महातेजा वनस्पतिगणे तथा
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्

1.051.006

सुखोपविष्टं राजानं विश्वामित्रं महातपाः
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः

1.051.007

कच्चित् ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्
प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक

1.051.008

कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने
कच्चित् ते विजिताः सर्वे रिपवो रिपुसूदन

1.051.009

कच्चिद् बले च कोशे च मित्रेषु च परंतप
कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ

1.051.010

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः

1.051.011

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्

1.051.012

ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन
विश्वामित्रम् इदं वाक्यम् उवाच प्रहसन्न् इव

1.051.013

आतिथ्यं कर्तुम् इच्छामि बलस्यास्य महाबल
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे

1.051.014

सत्क्रियां तु भवान् एतां प्रतीच्छतु मयोद्यताम्
राजंस् त्वम् अतिथिश्रेष्ठः पूजनीयः प्रयत्नतः

1.051.015

एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः
कृतम् इत्य् अब्रवीद् राजा पूजावाक्येन मे त्वया

1.051.016

फलमूलेन भगवन् विद्यते यत् तवाश्रमे
पाद्येनाचमनीयेन भगवद्दर्शनेन च

1.051.017

सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः
गमिष्यामि नमस् ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा

1.051.018

एवं ब्रुवन्तं राजानं वसिष्ठः पुनर् एव हि
न्यमन्त्रयत धर्मात्मा पुनः पुनर् उदारधीः

1.051.019

बाढम् इत्य् एव गाधेयो वसिष्ठं प्रत्युवाच ह
यथा प्रियं भगवतस् तथास्तु मुनिसत्तम

1.051.020

एवम् उक्तो महातेजा वसिष्ठो जपतां वरः
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः

1.051.021

एह्य् एहि शबले क्षिप्रं शृणु चापि वचो मम
सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्य् अहम्
भोजनेन महार्हेण सत्कारं संविधत्स्व मे

1.051.022

यस्य यस्य यथाकामं षड्रसेष्व् अभिपूजितम्
तत् सर्वं कामधुग् दिव्ये अभिवर्षकृते मम

1.051.023

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्
अन्नानां निचयं सर्वं सृजस्व शबले त्वर

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc