भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.050

1.050.001

तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः
हृष्टरोमा महातेजाः शतानन्दो महातपाः

1.050.002

गौतमस्य सुतो ज्येष्ठस् तपसा द्योतितप्रभः
रामसंदर्शनाद् एव परं विस्मयम् आगतः

1.050.003

स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ
शतानन्दो मुनिश्रेष्ठं विश्वामित्रम् अथाब्रवीत्

1.050.004

अपि ते मुनिशार्दूल मम माता यशस्विनी
दर्शिता राजपुत्राय तपो दीर्घम् उपागता

1.050.005

अपि रामे महातेजो मम माता यशस्विनी
वन्यैर् उपाहरत् पूजां पूजार्हे सर्वदेहिनाम्

1.050.006

अपि रामाय कथितं यथावृत्तं पुरातनम्
मम मातुर् महातेजो देवेन दुरनुष्ठितम्

1.050.007

अपि कौशिक भद्रं ते गुरुणा मम संगता
माता मम मुनिश्रेष्ठ रामसंदर्शनाद् इतः

1.050.008

अपि मे गुरुणा रामः पूजितः कुशिकात्मज
इहागतो महातेजाः पूजां प्राप्य महात्मनः

1.050.009

अपि शान्तेन मनसा गुरुर् मे कुशिकात्मज
इहागतेन रामेण प्रयतेनाभिवादितः

1.050.010

तच् छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्

1.050.011

नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया
संगता मुनिना पत्नी भार्गवेणेव रेणुका

1.050.012

तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः
शतानन्दो महातेजा रामं वचनम् अब्रवीत्

1.050.013

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव
विश्वामित्रं पुरस्कृत्य महर्षिम् अपराजितम्

1.050.014

अचिन्त्यकर्मा तपसा ब्रह्मर्षिर् अमितप्रभः
विश्वामित्रो महातेजा वेत्स्य् एनं परमां गतिम्

1.050.015

नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश् चन
गोप्ता कुशिकपुत्रस् ते येन तप्तं महत् तपः

1.050.016

श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः
यथाबलं यथावृत्तं तन् मे निगदतः शृणु

1.050.017

राजाभूद् एष धर्मात्मा दीर्घ कालम् अरिंदमः
धर्मज्ञः कृतविद्यश् च प्रजानां च हिते रतः

1.050.018

प्रजापतिसुतस् त्व् आसीत् कुशो नाम महीपतिः
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः

1.050.019

कुशनाभसुतस् त्व् आसीद् गाधिर् इत्य् एव विश्रुतः
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः

1.050.020

विश्वमित्रो महातेजाः पालयाम् आस मेदिनीम्
बहुवर्षसहस्राणि राजा राज्यम् अकारयत्

1.050.021

कदा चित् तु महातेजा योजयित्वा वरूथिनीम्
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्

1.050.022

नगराणि च राष्ट्राणि सरितश् च तथा गिरीन्
आश्रमान् क्रमशो राजा विचरन्न् आजगामह

1.050.023

वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम्
नानामृगगणाकीर्णं सिद्धचारणसेवितम्

1.050.024

देवदानवगन्धर्वैः किंनरैर् उपशोभितम्
प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम्

1.050.025

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्
तपश्चरणसंसिद्धैर् अग्निकल्पैर् महात्मभिः

1.050.026

सततं संकुलं श्रीमद् ब्रह्मकल्पैर् महात्मभिः
अब्भक्षैर् वायुभक्षैश् च शीर्णपर्णाशनैस् तथा

1.050.027

फलमूलाशनैर् दान्तैर् जितरोषैर् जितेन्द्रियैः
ऋषिभिर् वालखिल्यैश् च जपहोमपरायणैः

1.050.028

वसिष्ठस्याश्रमपदं ब्रह्मलोकम् इवापरम्
ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc