रामायण · अध्याय 1.049
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह
विश्वामित्रं पुरस्कृत्य यज्ञवाटम् उपागमत्
रामस् तु मुनिशार्दूलम् उवाच सहलक्ष्मणः
साध्वी यज्ञसमृद्धिर् हि जनकस्य महात्मनः
बहूनीह सहस्राणि नानादेशनिवासिनाम्
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्
ऋषिवाटाश् च दृश्यन्ते शकटीशतसंकुलाः
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः
निवेशम् अकरोद् देशे विविक्ते सलिलायुते
विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस् तदा
शतानन्दं पुरस्कृत्य पुरोहितम् अनिन्दितम्
ऋत्विजो ऽपि महात्मानस् त्व् अर्घ्यम् आदाय सत्वरम्
विश्वामित्राय धर्मेण ददुर् मन्त्रपुरस्कृतम्
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्
स तांश् चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः
यथान्यायं ततः सर्वैः समागच्छत् प्रहृष्टवान्
अथ राजा मुनिश्रेष्ठं कृताञ्जलिर् अभाषत
आसने भगवान् आस्तां सहैभिर् मुनिसत्तमैः
जनकस्य वचः श्रुत्वा निषसाद महामुनिः
पुरोधा ऋत्विजश् चैव राजा च सह मन्त्रिभिः
आसनेषु यथान्यायम् उपविष्टान् समन्ततः
दृष्ट्वा स नृपतिस् तत्र विश्वामित्रम् अथाब्रवीत्
अद्य यज्ञसमृद्धिर् मे सफला दैवतैः कृता
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान् मया
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनिपुंगव
यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह
द्वादशाहं तु ब्रह्मर्षे शेषम् आहुर् मनीषिणः
ततो भागार्थिनो देवान् द्रष्टुम् अर्हसि कौशिक
इत्य् उक्त्वा मुनिशार्दूलं प्रहृष्टवदनस् तदा
पुनस् तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
गजसिंहगती वीरौ शार्दूलवृषभोपमौ
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
अश्विनाव् इव रूपेण समुपस्थितयौवनौ
यदृच्छयैव गां प्राप्तौ देवलोकाद् इवामरौ
कथं पद्भ्याम् इह प्राप्तौ किमर्थं कस्य वा मुने
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने
भूषयन्ताव् इमं देशं चन्द्रसूर्याव् इवाम्बरम्
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः
काकपक्षधरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः
तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः
न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
तच् चागमनम् अव्यग्रं विशालायाश् च दर्शनम्
अहल्यादर्शनं चैव गौतमेन समागमम्
महाधनुषि जिज्ञासां कर्तुम् आगमनं तथा
एतत् सर्वं महातेजा जनकाय महात्मने
निवेद्य विररामाथ विश्वामित्रो महामुनिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0