रामायण · अध्याय 1.048
अफलस् तु ततः शक्रो देवान् अग्निपुरोगमान्
अब्रवीत् त्रस्तवदनः सर्षिसंघान् सचारणान्
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः
क्रोधम् उत्पाद्य हि मया सुरकार्यम् इदं कृतम्
अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता
शापमोक्षेण महता तपो ऽस्यापहृतं मया
तन् मां सुरवराः सर्वे सर्षिसंघाः सचारणाः
सुरसाह्यकरं सर्वे सफलं कर्तुम् अर्हथ
शतक्रतोर् वचः श्रुत्वा देवाः साग्निपुरोगमाः
पितृदेवान् उपेत्याहुः सह सर्वैर् मरुद्गणैः
अयं मेषः सवृषणः शक्रो ह्य् अवृषणः कृतः
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत
अफलस् तु कृतो मेषः परां तुष्टिं प्रदास्यति
भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः
अग्नेस् तु वचनं श्रुत्वा पितृदेवाः समागताः
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन्
तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः
अफलान् भुञ्जते मेषान् फलैस् तेषाम् अयोजयन्
इन्द्रस् तु मेषवृषणस् तदा प्रभृति राघव
गौतमस्य प्रभावेन तपसश् च महात्मनः
तदागच्छ महातेज आश्रमं पुण्यकर्मणः
तारयैनां महाभागाम् अहल्यां देवरूपिणीम्
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह
ददर्श च महाभागां तपसा द्योतितप्रभाम्
लोकैर् अपि समागम्य दुर्निरीक्ष्यां सुरासुरैः
प्रयत्नान् निर्मितां धात्रा दिव्यां मायामयीम् इव
धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभाम् इव
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभाम् इव
मध्ये ऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभाम् इव
स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह
त्रयाणाम् अपि लोकानां यावद् रामस्य दर्शनम्
राघवौ तु ततस् तस्याः पादौ जगृहतुस् तदा
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ
पाद्यम् अर्घ्यं तथातिथ्यं चकार सुसमाहिता
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा
पुष्पवृष्टिर् महत्य् आसीद् देवदुन्दुभिनिस्वनैः
गन्धर्वाप्सरसां चापि महान् आसीत् समागमः
साधु साध्व् इति देवास् ताम् अहल्यां समपूजयन्
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्
गौतमो ऽपि महातेजा अहल्यासहितः सुखी
रामं संपूज्य विधिवत् तपस् तेपे महातपाः
रामो ऽपि परमां पूजां गौतमस्य महामुनेः
सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0