भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.044

1.044.001

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः
विस्मयं परमं गत्वा विश्वामित्रम् अथाब्रवीत्

1.044.002

अत्यद्भुतम् इदं ब्रह्मन् कथितं परमं त्वया
गङ्गावतरणं पुण्यं सागरस्य च पूरणम्

1.044.003

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्

1.044.004

ततः प्रभाते विमले विश्वामित्रं महामुनिम्
उवाच राघवो वाक्यं कृताह्निकम् अरिंदमः

1.044.005

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्
क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः
इमां चिन्तयतः सर्वां निखिलेन कथां तव

1.044.006

तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्
नौर् एषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्
भगवन्तम् इह प्राप्तं ज्ञात्वा त्वरितम् आगता

1.044.007

तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः
संतारं कारयाम् आस सर्षिसंघः सराघवः

1.044.008

उत्तरं तीरम् आसाद्य संपूज्यर्षिगणं तथ
गङ्गाकूले निविष्टास् ते विशालां ददृशुः पुरीम्

1.044.009

ततो मुनिवरस् तूर्णं जगाम सहराघवः
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा

1.044.010

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्
पप्रच्छ प्राञ्जलिर् भूत्वा विशालाम् उत्तमां पुरीम्

1.044.011

कतरो राजवंशो ऽयं विशालायां महामुने
श्रोतुम् इच्छामि भद्रं ते परं कौतूहलं हि मे

1.044.012

तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुंगवः
आख्यातुं तत् समारेभे विशालस्य पुरातनम्

1.044.013

श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव

1.044.014

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः
अदितेश् च महाभागा वीर्यवन्तः सुधार्मिकाः

1.044.015

ततस् तेषां नरश्रेष्ठ बुद्धिर् आसीन् महात्मनाम्
अमरा निर्जराश् चैव कथं स्याम निरामयाः

1.044.016

तेषां चिन्तयतां राम बुद्धिर् आसीद् विपश्चिताम्
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै

1.044.017

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्
मन्थानं मन्दरं कृत्वा ममन्थुर् अमितौजसः

1.044.018

अथ धन्वन्तरिर् नाम अप्सराश् च सुवर्चसः
अप्सु निर्मथनाद् एव रसात् तस्माद् वरस्त्रियः
उत्पेतुर् मनुजश्रेष्ठ तस्माद् अप्सरसो ऽभवन्

1.044.019

षष्टिः कोट्यो ऽभवंस् तासाम् अप्सराणां सुवर्चसाम्
असंख्येयास् तु काकुत्स्थ यास् तासां परिचारिकाः

1.044.020

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः
अप्रतिग्रहणाच् चैव तेन साधारणाः स्मृताः

1.044.021

वरुणस्य ततः कन्या वारुणी रघुनन्दन
उत्पपात महाभागा मार्गमाणा परिग्रहम्

1.044.022

दितेः पुत्रा न तां राम जगृहुर् वरुणात्मजाम्
अदितेस् तु सुता वीर जगृहुस् ताम् अनिन्दिताम्

1.044.023

असुरास् तेन दैतेयाः सुरास् तेनादितेः सुताः
हृष्टाः प्रमुदिताश् चासन् वारुणी ग्रहणात् सुराः

1.044.024

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्
उदतिष्ठन् नरश्रेष्ठ तथैवामृतम् उत्तमम्

1.044.025

अथ तस्य कृते राम महान् आसीत् कुलक्षयः
अदितेस् तु ततः पुत्रा दितेः पुत्राण सूदयन्

1.044.026

अदितेर् आत्मजा वीरा दितेः पुत्रान् निजघ्निरे
तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर् भृशम्

1.044.027

निहत्य दितिपुत्रांस् तु राज्यं प्राप्य पुरंदरः
शशास मुदितो लोकान् सर्षिसंघान् सचारणान्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc