रामायण · अध्याय 1.043
स गत्वा सागरं राजा गङ्गयानुगतस् तदा
प्रविवेश तलं भूमेर् यत्र ते भस्मसात्कृताः
भस्मन्य् अथाप्लुते राम गङ्गायाः सलिलेन वै
सर्व लोकप्रभुर् ब्रह्मा राजानम् इदम् अब्रवीत्
तारिता नरशार्दूल दिवं याताश् च देववत्
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः
सागरस्य जलं लोके यावत् स्थास्यति पार्थिव
सगरस्यात्मजास् तावत् स्वर्गे स्थास्यन्ति देववत्
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति
त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च
त्रिपथो भावयन्तीति ततस् त्रिपथगा स्मृता
पितामहानां सर्वेषां त्वम् अत्र मनुजाधिप
कुरुष्व सलिलं राजन् प्रतिज्ञाम् अपवर्जय
पूर्वकेण हि ते राजंस् तेनातियशसा तदा
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः
तथैवांशुमता तात लोके ऽप्रतिमतेजसा
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता
राजर्षिणा गुणवता महर्षिसमतेजसा
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च
दिलीपेन महाभाग तव पित्रातितेजसा
पुनर् न शङ्किता नेतुं गङ्गां प्रार्थयतानघ
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ
प्राप्तो ऽसि परमं लोके यशः परमसंमतम्
यच् च गङ्गावतरणं त्वया कृतम् अरिंदम
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्
प्लावयस्व त्वम् आत्मानं नरोत्तम सदोचिते
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्
स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप
इत्य् एवम् उक्त्वा देवेशः सर्वलोकपितामहः
यथागतं तथागच्छद् देवलोकं महायशाः
भगीरथो ऽपि राजर्षिः कृत्वा सलिलम् उत्तमम्
यथाक्रमं यथान्यायं सागराणां महायशाः
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह
प्रमुमोद च लोकस् तं नृपम् आसाद्य राघव
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः
एष ते राम गङ्गाया विस्तरो ऽभिहितो मया
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालो ऽतिवर्तते
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुत्र्यम् अथापि च
इदम् आख्यानम् आख्यातं गङ्गावतरणं मया
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0