रामायण · अध्याय 1.042
देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम्
कृत्वा वसुमतीं राम संवत्सरम् उपासत
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः
उमापतिः पशुपती राजानम् इदम् अब्रवीत्
प्रीतस् ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्
शिरसा धारयिष्यामि शैलराजसुताम् अहम्
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता
तदा सातिमहद् रूपं कृत्वा वेगं च दुःसहम्
आकाशाद् अपतद् राम शिवे शिवशिरस्य् उत
नैव सा निर्गमं लेभे जटामण्डलमोहिता
तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून्
अनेन तोषितश् चासीद् अत्यर्थं रघुनन्दन
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति
गगनाच् छंकरशिरस् ततो धरणिम् आगता
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास् तथा
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा
विमानैर् नगराकारैर् हयैर् गजवरैस् तथा
पारिप्लवगताश् चापि देवतास् तत्र विष्ठिताः
तद् अद्भुततमं लोके गङ्गापतनम् उत्तमम्
दिदृक्षवो देवगणाः समेयुर् अमितौजसः
संपतद्भिः सुरगणैस् तेषां चाभरणौजसा
शतादित्यम् इवाभाति गगनं गततोयदम्
शिंशुमारोरगगणैर् मीनैर् अपि च चञ्चलैः
विद्युद्भिर् इव विक्षिप्तैर् आकाशम् अभवत् तदा
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा
शारदाभ्रैर् इवाकीर्णं गगनं हंससंप्लवैः
क्व चिद् द्रुततरं याति कुटिलं क्व चिद् आयतम्
विनतं क्व चिद् उद्धूतं क्व चिद् याति शनैः शनैः
सलिलेनैव सलिलं क्व चिद् अभ्याहतं पुनः
मुहुर् ऊर्ध्वपथं गत्वा पपात वसुधां पुनः
तच् छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः
व्यरोचत तदा तोयं निर्मलं गतकल्मषम्
तत्रर्षिगणगन्धर्वा वसुधातलवासिनः
भवाङ्गपतितं तोयं पवित्रम् इति पस्पृशुः
शापात् प्रपतिता ये च गगनाद् वसुधातलम्
कृत्वा तत्राभिषेकं ते बभूवुर् गतकल्मषाः
धूपपापाः पुनस् तेन तोयेनाथ सुभास्वता
पुनर् आकाशम् आविश्य स्वांल् लोकान् प्रतिपेदिरे
मुमुदे मुदितो लोकस् तेन तोयेन भास्वता
कृताभिषेको गङ्गायां बभूव विगतक्लमः
भगीरथो ऽपि राजर्षिर् दिव्यं स्यन्दनम् आस्थितः
प्रायाद् अग्रे महातेजास् तं गङ्गा पृष्ठतो ऽन्वगात्
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
सर्वाश् चाप्सरसो राम भगीरथरथानुगाः
गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराश् च ये
यतो भगीरथो राजा ततो गङ्गा यशस्विनी
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0