रामायण · अध्याय 1.041
कालधर्मं गते राम सगरे प्रकृतीजनाः
राजानं रोचयाम् आसुर् अंशुमन्तं सुधार्मिकम्
स राजा सुमहान् आसीद् अंशुमान् रघुनन्दन
तस्य पुत्रो महान् आसीद् दिलीप इति विश्रुतः
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन
हिमवच्छिखरे रम्ये तपस् तेपे सुदारुणम्
द्वात्रिंशच् च सहस्राणि वर्षाणि सुमहायशाः
तपोवनगतो राजा स्वर्गं लेभे तपोधनः
दिलीपस् तु महातेजाः श्रुत्वा पैतामहं वधम्
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत
कथं गङ्गावतरणं कथं तेषां जलक्रिया
तारयेयं कथं चैतान् इति चिन्ता परो ऽभवत्
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः
दिलीपस् तु महातेजा यज्ञैर् बहुभिर् इष्टवान्
त्रिंशद्वर्षसहस्राणि राजा राज्यम् अकारयत्
अगत्वा निश्चयं राजा तेषाम् उद्धरणं प्रति
व्याधिना नरशार्दूल कालधर्मम् उपेयिवान्
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा
राज्ये भगीरथं पुत्रम् अभिषिच्य नरर्षभः
भगीरथस् तु राजर्षिर् धार्मिको रघुनन्दन
अनपत्यो महातेजाः प्रजाकामः स चाप्रजः
स तपो दीर्घम् आतिष्ठद् गोकर्णे रघुनन्दन
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः
सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिर् ईश्वरः
ततः सुरगणैः सार्धम् उपागम्य पितामहः
भगीरथं महात्मानं तप्यमानम् अथाब्रवीत्
भगीरथ महाभाग प्रीतस् ते ऽहं जनेश्वर
तपसा च सुतप्तेन वरं वरय सुव्रत
तम् उवाच महातेजाः सर्वलोकपितामहम्
भगीरथो महाभागः कृताञ्जलिर् अवस्थितः
यदि मे भगवान् प्रीतो यद्य् अस्ति तपसः फलम्
सगरस्यात्मजाः सर्वे मत्तः सलिलम् आप्नुयुः
गङ्गायाः सलिलक्लिन्ने भस्मन्य् एषां महात्मनाम्
स्वर्गं गच्छेयुर् अत्यन्तं सर्वे मे प्रपितामहाः
देया च संततिर् देव नावसीदेत् कुलं च नः
इक्ष्वाकूणां कुले देव एष मे ऽस्तु वरः परः
उक्तवाक्यं तु राजानं सर्वलोकपितामहः
प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्
मनोरथो महान् एष भगीरथ महारथ
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन
इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता
तां वै धारयितुं राजन् हरस् तत्र नियुज्यताम्
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः
तम् एवम् उक्त्वा राजानं गङ्गां चाभाष्य लोककृत्
जगाम त्रिदिवं देवः सह सर्वैर् मरुद्गणैः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0