रामायण · अध्याय 1.040
पुत्रांश् चिरगताञ् ज्ञात्वा सगरो रघुनन्दन
नप्तारम् अब्रवीद् राजा दीप्यमानं स्वतेजसा
शूरश् च कृतविद्यश् च पूर्वैस् तुल्यो ऽसि तेजसा
पितॄणां गतिम् अन्विच्छ येन चाश्वो ऽपहारितः
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्
अभिवाद्याभिवाद्यांस् त्वं हत्वा विघ्नकरान् अपि
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः
एवम् उक्तो ऽंशुमान् सम्यक् सगरेण महात्मना
धनुर् आदाय खड्गं च जगाम लघुविक्रमः
स खातं पितृभिर् मार्गम् अन्तर्भौमं महात्मभिः
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः
पूज्यमानं महातेजा दिशागजम् अपश्यत
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्
पितॄन् स परिपप्रच्छ वाजिहर्तारम् एव च
दिशागजस् तु तच् छ्रुत्वा प्रीत्याहांशुमतो वचः
आसमञ्जकृतार्थस् त्वं सहाश्वः शीघ्रम् एष्यसि
तस्य तद् वचनं श्रुत्वा सर्वान् एव दिशागजान्
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे
तैश् च सर्वैर् दिशापालैर् वाक्यज्ञैर् वाक्यकोविदैः
पूजितः सहयश् चैव गन्तासीत्य् अभिचोदितः
तेषां तद् वचनं श्रुत्वा जगाम लघुविक्रमः
भस्मराशीकृता यत्र पितरस् तस्य सागराः
स दुःखवशम् आपन्नस् त्व् असमञ्जसुतस् तदा
चुक्रोश परमार्तस् तु वधात् तेषां सुदुःखितः
यज्ञियं च हयं तत्र चरन्तम् अविदूरतः
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः
ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम्
सलिलार्थी महातेजा न चापश्यज् जलाशयम्
विसार्य निपुणां दृष्टिं ततो ऽपश्यत् खगाधिपम्
पितॄणां मातुलं राम सुपर्णम् अनिलोपमम्
स चैनम् अब्रवीद् वाक्यं वैनतेयो महाबलः
मा शुचः पुरुषव्याघ्र वधो ऽयं लोकसंमतः
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः
सलिलं नार्हसि प्राज्ञ दातुम् एषां हि लौकिकम्
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ
भस्मराशीकृतान् एतान् पावयेल् लोकपावनी
तया क्लिन्नम् इदं भस्म गङ्गया लोककान्तया
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति
गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ
यज्ञं पैतामहं वीर निर्वर्तयितुम् अर्हसि
सुपर्णवचनं श्रुत्वा सो ऽंशुमान् अतिवीर्यवान्
त्वरितं हयम् आदाय पुनर् आयान् महायशाः
ततो राजानम् आसाद्य दीक्षितं रघुनन्दन
न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा
तच् छ्रुत्वा घोरसंकाशं वाक्यम् अंशुमतो नृपः
यज्ञं निर्वर्तयाम् आस यथाकल्पं यथाविधि
स्वपुरं चागमच् छ्रीमान् इष्टयज्ञो महीपतिः
गङ्गायाश् चागमे राजा निश्चयं नाध्यगच्छत
अगत्वा निश्चयं राजा कालेन महता महान्
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0