रामायण · अध्याय 1.039
देवतानां वचः श्रुत्वा भगवान् वै पितामहः
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान्
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः
कापिलं रूपम् आस्थाय धारयत्य् अनिशं धराम्
पृथिव्याश् चापि निर्भेदो दृष्ट एव सनातनः
सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम्
पितामहवचः श्रुत्वा त्रयस् त्रिंशद् अरिंदमः
देवाः परमसंहृष्टाः पुनर् जग्मुर् यथागतम्
सगरस्य च पुत्राणां प्रादुर् आसीन् महात्मनाम्
पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्
सहिताः सगराः सर्वे पितरं वाक्यम् अब्रुवन्
परिक्रान्ता मही सर्वा सत्त्ववन्तश् च सूदिताः
देवदानवरक्षांसि पिशाचोरगकिंनराः
न च पश्यामहे ऽश्वं तम् अश्वहर्तारम् एव च
किं करिष्याम भद्रं ते बुद्धिर् अत्र विचार्यताम्
तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः
समन्युर् अब्रवीद् वाक्यं सगरो रघुनन्दन
भूयः खनत भद्रं वो निर्भिद्य वसुधातलम्
अश्वहर्तारम् आसाद्य कृतार्थाश् च निवर्तथ
पितुर् वचनम् आस्थाय सगरस्य महात्मनः
षष्टिः पुत्रसहस्राणि रसातलम् अभिद्रवन्
खन्यमाने ततस् तस्मिन् ददृशुः पर्वतोपमम्
दिशागजं विरूपाक्षं धारयन्तं महीतलम्
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन
शिरसा धारयाम् आस विरूपाक्षो महागजः
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः
खेदाच् चालयते शीर्षं भूमिकम्पस् तधा भवेत्
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्
मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम्
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः
दक्षिणस्याम् अपि दिशि ददृशुस् ते महागजम्
महापद्मं महात्मानं सुमहापर्वतोपमम्
शिरसा धारयन्तं ते विस्मयं जग्मुर् उत्तमम्
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर् दिशम्
पश्चिमायाम् अपि दिशि महान्तम् अचलोपमम्
दिशागजं सौमनसं ददृशुस् ते महाबलाः
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्
खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा
उत्तरस्यां रघुश्रेष्ठ ददृशुर् हिमपाण्डुरम्
भद्रं भद्रेण वपुषा धारयन्तं महीम् इमाम्
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्
षष्टिः पुत्रसहस्राणि बिभिदुर् वसुधातलम्
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्
रोषाद् अभ्यखनन् सर्वे पृथिवीं सगरात्मजाः
ददृशुः कपिलं तत्र वासुदेवं सनातनम्
हयं च तस्य देवस्य चरन्तम् अविदूरतः
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः
अभ्यधावन्त संक्रुद्धास् तिष्ठ तिष्ठेति चाब्रुवन्
अस्माकं त्वं हि तुरगं यज्ञियं हृतवान् असि
दुर्मेधस् त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान्
श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन
रोषेण महताविष्टो हुंकारम् अकरोत् तदा
ततस् तेनाप्रमेयेन कपिलेन महात्मना
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0