भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.038

1.038.001

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन
उवाच परमप्रीतो मुनिं दीप्तम् इवानलम्

1.038.002

श्रोतुम् इछामि भद्रं ते विस्तरेण कथाम् इमाम्
पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्

1.038.003

विश्वामित्रस् तु काकुत्स्थम् उवाच प्रहसन्न् इव
श्रूयतां विस्तरो राम सगरस्य महात्मनः

1.038.004

शंकरश्वशुरो नाम हिमवान् अचलोत्तमः
विन्ध्यपर्वतम् आसाद्य निरीक्षेते परस्परम्

1.038.005

तयोर् मध्ये प्रवृत्तो ऽभूद् यज्ञः स पुरुषोत्तम
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि

1.038.006

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः
अंशुमान् अकरोत् तात सगरस्य मते स्थितः

1.038.007

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः
राक्षसीं तनुम् आस्थाय यज्ञियाश्वम् अपाहरत्

1.038.008

ह्रियमाणे तु काकुत्स्थ तस्मिन्न् अश्वे महात्मनः
उपाध्याय गणाः सर्वे यजमानम् अथाब्रुवन्

1.038.009

अयं पर्वणि वेगेन यज्ञियाश्वो ऽपनीयते
हर्तारं जहि काकुत्स्थ हयश् चैवोपनीयताम्

1.038.010

यज्ञच् छिद्रं भवत्य् एतत् सर्वेषाम् अशिवाय नः
तत् तथा क्रियतां राजन् यथाछिद्रः क्रतुर् भवेत्

1.038.011

उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः
षष्टिं पुत्रसहस्राणि वाक्यम् एतद् उवाच ह

1.038.012

गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः
मन्त्रपूतैर् महाभागैर् आस्थितो हि महाक्रतुः

1.038.013

तद् गच्छत विचिन्वध्वं पुत्रका भद्रम् अस्तु वः
समुद्रमालिनीं सर्वां पृथिवीम् अनुगच्छत

1.038.014

एकैकं योजनं पुत्रा विस्तारम् अभिगच्छत

1.038.015

यावत् तुरगसंदर्शस् तावत् खनत मेदिनीम्
तम् एव हयहर्तारं मार्गमाणा ममाज्ञया

1.038.016

दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्य् अहम्
इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम्

1.038.017

इत्य् उक्त्वा हृष्टमनसो राजपुत्रा महाबलाः
जग्मुर् महीतलं राम पितुर् वचनयन्त्रिताः

1.038.018

योजनायाम् अविस्तारम् एकैको धरणीतलम्
बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर् भुजैः

1.038.019

शूलैर् अशनिकल्पैश् च हलैश् चापि सुदारुणैः
भिद्यमाना वसुमती ननाद रघुनन्दन

1.038.020

नागानां वध्यमानानाम् असुराणां च राघव
राक्षसानां च दुर्धर्षः सत्त्वानां निनदो ऽभवत्

1.038.021

योजनानां सहस्राणि षष्टिं तु रघुनन्दन
बिभिदुर् धरणीं वीरा रसातलम् अनुत्तमम्

1.038.022

एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः

1.038.023

ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः
संभ्रान्तमनसः सर्वे पितामहम् उपागमन्

1.038.024

ते प्रसाद्य महात्मानं विषण्णवदनास् तदा
ऊचुः परमसंत्रस्ताः पितामहम् इदं वचः

1.038.025

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः
बहवश् च महात्मानो वध्यन्ते जलचारिणः

1.038.026

अयं यज्ञहनो ऽस्माकम् अनेनाश्वो ऽपनीयते
इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc