भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.034

1.034.001

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः
निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत

1.034.002

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय

1.034.003

तच् छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्
गमनं रोचयाम् आस वाक्यं चेदम् उवाच ह

1.034.004

अयं शोणः शुभजलो गाधः पुलिनमण्डितः
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम्

1.034.005

एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम्
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः

1.034.006

ते गत्वा दूरम् अध्वानं गते ऽर्धदिवसे तदा
जाह्नवीं सरितां श्रेष्ठां ददृशुर् मुनिसेविताम्

1.034.007

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्
बभूवुर् मुदिताः सर्वे मुनयः सहराघवाः
तस्यास् तीरे ततश् चक्रुस् ते आवासपरिग्रहम्

1.034.008

ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद् धविः

1.034.009

विविशुर् जाह्नवीतीरे शुचौ मुदितमानसाः
विश्वामित्रं महात्मानं परिवार्य समन्ततः

1.034.010

संप्रहृष्टमना रामो विश्वामित्रम् अथाब्रवीत्
भगवञ् श्रोतुम् इच्छामि गङ्गां त्रिपथगां नदीम्
त्रैलोक्यं कथम् आक्रम्य गता नदनदीपतिम्

1.034.011

चोदितो राम वाक्येन विश्वामित्रो महामुनिः
वृद्धिं जन्म च गङ्गाया वक्तुम् एवोपचक्रमे

1.034.012

शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान्
तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि

1.034.013

या मेरुदुहिता राम तयोर् माता सुमध्यमा
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया

1.034.014

तस्यां गङ्गेयम् अभवज् ज्येष्ठा हिमवतः सुता
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव

1.034.015

अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया
शैलेन्द्रं वरयाम् आसुर् गङ्गां त्रिपथगां नदीम्

1.034.016

ददौ धर्मेण हिमवांस् तनयां लोकपावनीम्
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया

1.034.017

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः
गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेनान्तरात्मना

1.034.018

या चान्या शैलदुहिता कन्यासीद् रघुनन्दन
उग्रं सा व्रतम् आस्थाय तपस् तेपे तपोधना

1.034.019

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्

1.034.020

एते ते शैल राजस्य सुते लोकनमस्कृते
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव

1.034.021

एतत् ते धर्मम् आख्यातं यथा त्रिपथगा नदी
खं गता प्रथमं तात गतिं गतिमतां वर

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc