रामायण · अध्याय 1.033
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव
अपुत्रः पुत्रलाभाय पौत्रीम् इष्टिम् अकल्पयत्
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्
उवाच परमप्रीतः कुशो ब्रह्मसुतस् तदा
पुत्रस् ते सदृशः पुत्र भविष्यति सुधार्मिकः
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्
एवम् उक्त्वा कुशो राम कुशनाभं महीपतिम्
जगामाकाशम् आविश्य ब्रह्मलोकं सनातनम्
कस्य चित् त्व् अथ कालस्य कुशनाभस्य धीमतः
जज्ञे परमधर्मिष्ठो गाधिर् इत्य् एव नामतः
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः
कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन
पूर्वजा भगिनी चापि मम राघव सुव्रता
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता
सशरीरा गता स्वर्गं भर्तारम् अनुवर्तिनी
कौशिकी परमोदारा सा प्रवृत्ता महानदी
दिव्या पुण्योदका रम्या हिमवन्तम् उपाश्रिता
लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम
ततो ऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा
अहं हि नियमाद् राम हित्वा तां समुपागतः
सिद्धाश्रमम् अनुप्राप्य सिद्धो ऽस्मि तव तेजसा
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन् मां त्वं परिपृच्छसि
गतो ऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम
निद्राम् अभ्येहि भद्रं ते मा भूद् विघ्नो ऽध्वनीह नः
निष्पन्दास् तरवः सर्वे निलीना मृगपक्षिणः
नैशेन तमसा व्याप्ता दिशश् च रघुनन्दन
शनैर् वियुज्यते संध्या नभो नेत्रैर् इवावृतम्
नक्षत्रतारागहनं ज्योतिर्भिर् अवभासते
उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः
ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो
नैशानि सर्वभूतानि प्रचरन्ति ततस् ततः
यक्षराक्षससंघाश् च रौद्राश् च पिशिताशनाः
एवम् उक्त्वा महातेजा विरराम महामुनिः
साधु साध्व् इति तं सर्वे मुनयो ह्य् अभ्यपूजयन्
रामो ऽपि सह सौमित्रिः किं चिद् आगतविस्मयः
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0