भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.029

1.029.001

अथ तौ देशकालज्ञौ राजपुत्राव् अरिंदमौ
देशे काले च वाक्यज्ञाव् अब्रूतां कौशिकं वचः

1.029.002

भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ
संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम्

1.029.003

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया
सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ

1.029.004

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम्
दीक्षां गतो ह्य् एष मुनिर् मौनित्वं च गमिष्यति

1.029.005

तौ तु तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ
अनिद्रौ षडहोरात्रं तपोवनम् अरक्षताम्

1.029.006

उपासां चक्रतुर् वीरौ यत्तौ परमधन्विनौ
ररक्षतुर् मुनिवरं विश्वामित्रम् अरिंदमौ

1.029.007

अथ काले गते तस्मिन् षष्ठे ऽहनि समागते
सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः

1.029.008

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता

1.029.009

मन्त्रवच् च यथान्यायं यज्ञो ऽसौ संप्रवर्तते
आकाशे च महाञ् शब्दः प्रादुर् आसीद् भयानकः

1.029.010

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः
तथा मायां विकुर्वाणौ राक्षसाव् अभ्यधावताम्

1.029.011

मारीचश् च सुबाहुश् च तयोर् अनुचरास् तथा
आगम्य भीमसंकाशा रुधिरौघान् अवासृजन्

1.029.012

ताव् आपतन्तौ सहसा दृष्ट्वा राजीवलोचनः
लक्ष्मणं त्व् अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत्

1.029.013

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्
मानवास्त्रसमाधूतान् अनिलेन यथाघनान्

1.029.014

मानवं परमोदारम् अस्त्रं परमभास्वरम्
चिक्षेप परमक्रुद्धो मारीचोर् असि राघवः

1.029.015

स तेन परमास्त्रेण मानवेन समाहितः
संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे

1.029.016

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्
निरस्तं दृश्य मारीचं रामो लक्ष्मणम् अब्रवीत्

1.029.017

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्
मोहयित्वा नयत्य् एनं न च प्राणैर् वियुज्यते

1.029.018

इमान् अपि वधिष्यामि निर्घृणान् दुष्टचारिणः
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्

1.029.019

विगृह्य सुमहच् चास्त्रम् आग्नेयं रघुनन्दनः
सुबाहुर् असि चिक्षेप स विद्धः प्रापतद् भुवि

1.029.020

शेषान् वायव्यम् आदाय निजघान महायशाः
राघवः परमोदारो मुनीनां मुदम् आवहन्

1.029.021

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः
ऋषिभिः पूजितस् तत्र यथेन्द्रो विजये पुरा

1.029.022

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः
निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत्

1.029.023

कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस् त्वया
सिद्धाश्रमम् इदं सत्यं कृतं राम महायशः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc