भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.028

1.028.001

अथ तस्याप्रमेयस्य तद् वनं परिपृच्छतः
विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे

1.028.002

एष पूर्वाश्रमो राम वामनस्य महात्मनः
सिद्धाश्रम इति ख्यातः सिद्धो ह्य् अत्र महातपाः

1.028.003

एतस्मिन्न् एव काले तु राजा वैरोचनिर् बलिः
निर्जित्य दैवतगणान् सेन्द्रांश् च समरुद्गणान्
कारयाम् आस तद् राज्यं त्रिषु लोकेषु विश्रुतः

1.028.004

बलेस् तु यजमानस्य देवाः साग्निपुरोगमाः
समागम्य स्वयं चैव विष्णुम् ऊचुर् इहाश्रमे

1.028.005

बलिर् वैरोचनिर् विष्णो यजते यज्ञम् उत्तमम्
असमाप्ते क्रतौ तस्मिन् स्वकार्यम् अभिपद्यताम्

1.028.006

ये चैनम् अभिवर्तन्ते याचितार इतस् ततः
यच् च यत्र यथावच् च सर्वं तेभ्यः प्रयच्छति

1.028.007

स त्वं सुरहितार्थाय मायायोगम् उपाश्रितः
वामनत्वं गतो विष्णो कुरु कल्याणम् उत्तमम्

1.028.008

अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्न् इतः

1.028.009

अथ विष्णुर् महातेजा अदित्यां समजायत
वामनं रूपम् आस्थाय वैरोचनिम् उपागमत्

1.028.010

त्रीन् क्रमान् अथ भिक्षित्वा प्रतिगृह्य च मानतः
आक्रम्य लोकांल् लोकात्मा सर्वभूतहिते रतः

1.028.011

महेन्द्राय पुनः प्रादान् नियम्य बलिम् ओजसा
त्रैलोक्यं स महातेजाश् चक्रे शक्रवशं पुनः

1.028.012

तेनैष पूर्वम् आक्रान्त आश्रमः श्रमनाशनः
मयापि भक्त्या तस्यैष वामनस्योपभुज्यते

1.028.013

एतम् आश्रमम् आयान्ति राक्षसा विघ्नकारिणः
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः

1.028.014

अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम्
तद् आश्रमपदं तात तवाप्य् एतद् यथा मम

1.028.015

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः
उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन्

1.028.016

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते
तथैव राजपुत्राभ्याम् अकुर्वन्न् अतिथिक्रियाम्

1.028.017

मुहूर्तम् अथ विश्रान्तौ राजपुत्राव् अरिंदमौ
प्राञ्जली मुनिशार्दूलम् ऊचतू रघुनन्दनौ

1.028.018

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव
सिद्धाश्रमो ऽयं सिद्धः स्यात् सत्यम् अस्तु वचस् तव

1.028.019

एवम् उक्तो महातेजा विश्वामित्रो महामुनिः
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः

1.028.020

कुमाराव् अपि तां रात्रिम् उषित्वा सुसमाहितौ
प्रभातकाले चोत्थाय विश्वामित्रम् अवन्दताम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc