भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.027

1.027.001

प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुचिः
गच्छन्न् एव च काकुत्स्थो विश्वामित्रम् अथाब्रवीत्

1.027.002

गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरैर् अपि
अस्त्राणां त्व् अहम् इच्छामि संहारं मुनिपुंगव

1.027.003

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः
संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः

1.027.004

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसम् एव च
प्रतिहारतरं नाम पराङ्मुखम् अवाङ्मुखम्

1.027.005

लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ

1.027.006

पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ
ज्योतिषं कृशनं चैव नैराश्य विमलाव् उभौ

1.027.007

यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा
पित्र्यं सौमनसं चैव विधूतमकराव् उभौ

1.027.008

करवीरकरं चैव धनधान्यौ च राघव
कामरूपं कामरुचिं मोहम् आवरणं तथा

1.027.009

जृम्भकं सर्वनाभं च सन्तानवरणौ तथा
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः

1.027.010

प्रतीच्छ मम भद्रं ते पात्रभूतो ऽसि राघव
दिव्यभास्वरदेहाश् च मूर्तिमन्तः सुखप्रदाः

1.027.011

रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः
इमे स्म नरशार्दूल शाधि किं करवाम ते

1.027.012

गम्यताम् इति तान् आह यथेष्टं रघुनन्दनः
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ

1.027.013

अथ ते रामम् आमन्त्र्य कृत्वा चापि प्रदक्षिणम्
एवम् अस्त्व् इति काकुत्स्थम् उक्त्वा जग्मुर् यथागतम्

1.027.014

स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्
गच्छन्न् एवाथ मधुरं श्लक्ष्णं वचनम् अब्रवीत्

1.027.015

किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः
वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे

1.027.016

दर्शनीयं मृगाकीर्णं मनोहरम् अतीव च
नानाप्रकारैः शकुनैर् वल्गुभाषैर् अलंकृतम्

1.027.017

निःसृताः स्म मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात्
अनया त्व् अवगच्छामि देशस्य सुखवत्तया

1.027.018

सर्वं मे शंस भगवन् कस्याश्रमपदं त्व् इदम्
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc