रामायण · अध्याय 1.023
ततः प्रभाते विमले कृताह्निकम् अरिंदमौ
विश्वामित्रं पुरस्कृत्य नद्यास् तीरम् उपागतौ
ते च सर्वे महात्मानो मुनयः संशितव्रताः
उपस्थाप्य शुभां नावं विश्वामित्रम् अथाब्रुवन्
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः
विश्वामित्रस् तथेत्य् उक्त्वा तान् ऋषीन् अभिपूज्य च
ततार सहितस् ताभ्यां सरितं सागरं गमाम्
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्
वारिणो भिद्यमानस्य किम् अयं तुमुलो ध्वनिः
राघवस्य वचः श्रुत्वा कौतूहल समन्वितम्
कथयाम् आस धर्मात्मा तस्य शब्दस्य निश्चयम्
कैलासपर्वते राम मनसा निर्मितं सरः
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः
तस्मात् सुस्राव सरसः सायोध्याम् उपगूहते
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता
तस्यायम् अतुलः शब्दो जाह्नवीम् अभिवर्तते
वारिसंक्षोभजो राम प्रणामं नियतः कुरु
ताभ्यां तु ताव् उभौ कृत्वा प्रणामम् अतिधार्मिकौ
तीरं दक्षिणम् आसाद्य जग्मतुर् लघुविक्रमौ
स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनिपुंगवम्
अहो वनम् इदं दुर्गं झिल्लिकागणनादितम्
भैरवैः श्वापदैः कीर्णं शकुन्तैर् दारुणारुतैः
नानाप्रकारैः शकुनैर् वाश्यद्भिर् भैरवस्वनैः
सिंहव्याघ्रवराहैश् च वारणैश् चापि शोभितम्
धवाश्वकर्णककुभैर् बिल्वतिन्दुकपाटलैः
संकीर्णं बदरीभिश् च किं न्व् इदं दारुणं वनम्
तम् उवाच महातेजा विश्वामित्रो महामुनिः
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्
एतौ जनपदौ स्फीतौ पूर्वम् आस्तां नरोत्तम
मलदाश् च करूषाश् च देवनिर्माण निर्मितौ
पुरा वृत्रवधे राम मलेन समभिप्लुतम्
क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत्
तम् इन्द्रं स्नापयन् देवा ऋषयश् च तपोधनाः
कलशैः स्नापयाम् आसुर् मलं चास्य प्रमोचयन्
इह भूम्यां मलं दत्त्वा दत्त्वा कारुषम् एव च
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे
निर्मलो निष्करूषश् च शुचिर् इन्द्रो यदाभवत्
ददौ देशस्य सुप्रीतो वरं प्रभुर् अनुत्तमम्
इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः
मलदाश् च करूषाश् च ममाङ्गमलधारिणौ
साधु साध्व् इति तं देवाः पाकशासनम् अब्रुवन्
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता
एतौ जनपदौ स्थीतौ दीर्घकालम् अरिंदम
मलदाश् च करूषाश् च मुदितौ धनधान्यतः
कस्य चित् त्व् अथ कालस्य यक्षी वै कामरूपिणी
बलं नागसहस्रस्य धारयन्ती तदा ह्य् अभूत्
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः
इमौ जनपदौ नित्यं विनाशयति राघव
मलदांश् च करूषांश् च ताटका दुष्टचारिणी
सेयं पन्थानम् आवार्य वसत्य् अत्यर्धयोजने
अत एव च गन्तव्यं ताटकाया वनं यतः
स्वबाहुबलम् आश्रित्य जहीमां दुष्टचारिणीम्
मन्नियोगाद् इमं देशं कुरु निष्कण्टकं पुनः
न हि कश् चिद् इमं देशं शक्रोत्य् आगन्तुम् ईदृशम्
यक्षिण्या घोरया राम उत्सादितम् असह्यया
एतत् ते सर्वम् आख्यातं यथैतद् दरुणं वनम्
यक्ष्या चोत्सादितं सर्वम् अद्यापि न निवर्तते
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0