रामायण · अध्याय 1.019
तच् छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम्
मुहूर्तम् इव निःसंज्ञः संज्ञावान् इदम् अब्रवीत्
ऊनषोडशवर्षो मे रामो राजीवलोचनः
न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः
इयम् अक्षौहिणी पूर्णा यस्याहं पतिर् ईश्वरः
अनया संवृतो गत्वा योधाहं तैर् निशाचरैः
इमे शूराश् च विक्रान्ता भृत्या मे ऽस्त्रविशारदाः
योग्या रक्षोगणैर् योद्धुं न रामं नेतुम् अर्हसि
अहम् एव धनुष्पाणिर् गोप्ता समरमूर्धनि
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता
अहं तत्र गमिष्यामि न राम नेतुम् अर्हसि
बालो ह्य् अकृतविद्यश् च न च वेत्ति बलाबलम्
न चास्त्रबलसंयुक्तो न च युद्धविशारदः
न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम्
विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे
जीवितुं मुनिशार्दूल न रामं नेतुम् अर्हसि
यदि वा राघवं ब्रह्मन् नेतुम् इच्छसि सुव्रत
चतुरङ्गसमायुक्तं मया सह च तं नय
षष्टिर् वर्षसहस्राणि जातस्य मम कौशिक
दुःखेनोत्पादितश् चायं न रामं नेतुम् अर्हसि
चतुर्णाम् आत्मजानां हि प्रीतिः परमिका मम
ज्येष्ठं धर्मप्रधानं च न रामं नेतुम् अर्हसि
किं वीर्या राक्षसास् ते च कस्य पुत्राश् च के च ते
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्
मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम्
सर्वं मे शंस भगवन् कथं तेषां मया रणे
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः
तस्य तद् वचनं श्रुत्वा विश्वामित्रो ऽभ्यभाषत
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः
स ब्रह्मणा दत्तवरस् त्रैलोक्यं बाधते भृशम्
महाबलो महावीर्यो राक्षसैर् बहुभिर् वृतः
श्रूयते हि महावीर्यो रावणो राक्षसाधिपः
साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः
यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः
तेन संचोदितौ तौ तु राक्षसौ सुमहा बलौ
मारीचश् च सुबाहुश् च यज्ञविघ्नं करिष्यतः
इत्य् उक्तो मुनिना तेन राजोवाच मुनिं तदा
न हि शक्तो ऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके
देवदानवगन्धर्वा यक्षाः पतग पन्नगाः
न शक्ता रावणं सोढुं किं पुनर् मानवा युधि
स हि वीर्यवतां वीर्यम् आदत्ते युधि राक्षसः
तेन चाहं न शक्तो ऽस्मि संयोद्धुं तस्य वा बलैः
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः
कथम् अप्य् अमरप्रख्यं संग्रामाणाम् अकोविदम्
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्
मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ
तयोर् अन्यतरेणाहं योद्धा स्यां ससुहृद्गणः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0