भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.018

1.018.001

तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम्
हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत

1.018.002

सदृशं राजशार्दूल तवैतद् भुवि नान्यतः
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः

1.018.003

यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्
कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः

1.018.004

अहं नियमम् आतिष्ठ सिद्ध्यर्थं पुरुषर्षभ
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ

1.018.005

व्रते मे बहुशश् चीर्णे समाप्त्यां राक्षसाव् इमौ
मारीचश् च सुबाहुश् च वीर्यवन्तौ सुशिक्षितौ
तौ मांसरुधिरौघेण वेदिं ताम् अभ्यवर्षताम्

1.018.006

अवधूते तथा भूते तस्मिन् नियमनिश्चये
कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपाक्रमे

1.018.007

न च मे क्रोधम् उत्स्रष्टुं बुद्धिर् भवति पार्थिव
तथाभूता हि सा चर्या न शापस् तत्र मुच्यते

1.018.008

स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्
काकपक्षधरं शूरं ज्येष्ठं मे दातुम् अर्हसि

1.018.009

शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा
राक्षसा ये विकर्तारस् तेषाम् अपि विनाशने

1.018.010

श्रेयश् चास्मै प्रदास्यामि बहुरूपं न संशयः
त्रयाणाम् अपि लोकानां येन ख्यातिं गमिष्यति

1.018.011

न च तौ रामम् आसाद्य शक्तौ स्थातुं कथं चन
न च तौ राघवाद् अन्यो हन्तुम् उत्सहते पुमान्

1.018.012

वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः

1.018.013

न च पुत्रकृतं स्नेहं कर्तुम् अर्हसि पार्थिव
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ

1.018.014

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्
वसिष्ठो ऽपि महातेजा ये चेमे तपसि स्थिताः

1.018.015

यदि ते धर्मलाभं च यशश् च परमं भुवि
स्थिरम् इच्छसि राजेन्द्र रामं मे दातुम् अर्हसि

1.018.016

यद्य् अभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः
वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय

1.018.017

अभिप्रेतम् असंसक्तम् आत्मजं दातुम् अर्हसि
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्

1.018.018

नात्येति कालो यज्ञस्य यथायं मम राघव
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः

1.018.019

इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः
विरराम महातेजा विश्वामित्रो महामुनिः

1.018.020

इति हृदयमनोविदारणं मुनिवचनं तद् अतीव शुश्रुवान्
नरपतिर् अगमद् भयं महद् व्यथितमनाः प्रचचाल चासनात्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc