भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.017

1.017.001

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर् यथागतम्

1.017.002

समाप्तदीक्षानियमः पत्नीगणसमन्वितः
प्रविवेश पुरीं राजा सभृत्यबलवाहनः

1.017.003

यथार्हं पूजितास् तेन राज्ञा वै पृथिवीश्वराः
मुदिताः प्रययुर् देशान् प्रणम्य मुनिपुंगवम्

1.017.004

गतेषु पृथिवीशेषु राजा दशरथः पुनः
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्

1.017.005

शान्तया प्रययौ सार्धम् ऋश्यशृङ्गः सुपूजितः
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता

1.017.006

कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम्
विष्णोर् अर्धं महाभागं पुत्रम् इक्ष्वाकुनन्दनम्

1.017.007

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा
यथा वरेण देवानाम् अदितिर् वज्रपाणिना

1.017.008

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः
साक्षाद् विष्णोश् चतुर्भागः सर्वैः समुदितो गुणैः

1.017.009

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ
वीरौ सर्वास्त्रकुशलौ विष्णोर् अर्धसमन्वितौ

1.017.010

राज्ञः पुत्रा महात्मानश् चत्वारो जज्ञिरे पृथक्
गुणवन्तो ऽनुरूपाश् च रुच्या प्रोष्ठपदोपमाः

1.017.011

अतीत्यैकादशाहं तु नाम कर्म तथाकरोत्
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्

1.017.012

सौमित्रिं लक्ष्मणम् इति शत्रुघ्नम् अपरं तथा
वसिष्ठः परमप्रीतो नामानि कृतवांस् तदा
तेषां जन्मक्रियादीनि सर्वकर्माण्य् अकारयत्

1.017.013

तेषां केतुर् इव ज्येष्ठो रामो रतिकरः पितुः
बभूव भूयो भूतानां स्वयम्भूर् इव संमतः

1.017.014

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः

1.017.015

तेषाम् अपि महातेजा रामः सत्यपराक्रमः
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः

1.017.016

रामस्य लोकरामस्य भ्रातुर् ज्येष्ठस्य नित्यशः
सर्वप्रियकरस् तस्य रामस्यापि शरीरतः

1.017.017

लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः
न च तेन विना निद्रां लभते पुरुषोत्तमः
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तं विना

1.017.018

यदा हि हयम् आरूढो मृगयां याति राघवः
तदैनं पृष्ठतो ऽभ्येति सधनुः परिपालयन्

1.017.019

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः

1.017.020

स चतुर्भिर् महाभागैः पुत्रैर् दशरथः प्रियैः
बभूव परमप्रीतो देवैर् इव पितामहः

1.017.021

ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः
ह्रीमन्तः कीर्तिमन्तश् च सर्वज्ञा दीर्घदर्शिनः

1.017.022

अथ राजा दशरथस् तेषां दारक्रियां प्रति
चिन्तयाम् आस धर्मात्मा सोपाध्यायः सबान्धवः

1.017.023

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः
अभ्यागच्छन् महातेजो विश्वामित्रो महामुनिः

1.017.024

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह
शीघ्रम् आख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्

1.017.025

तच् छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः

1.017.026

ते गत्वा राजभवनं विश्वामित्रम् ऋषिं तदा
प्राप्तम् आवेदयाम् आसुर् नृपायेक्ष्वाकवे तदा

1.017.027

तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः
प्रत्युज्जगाम संहृष्टो ब्रह्माणम् इव वासवः

1.017.028

स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्
प्रहृष्टवदनो राजा ततो ऽर्घ्यम् उपहारयत्

1.017.029

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा
कुशलं चाव्ययं चैव पर्यपृच्छन् नराधिपम्

1.017.030

वसिष्ठं च समागम्य कुशलं मुनिपुंगवः
ऋषींश् च तान् यथा न्यायं महाभागान् उवाच ह

1.017.031

ते सर्वे हृष्टमनसस् तस्य राज्ञो निवेशनम्
विविशुः पूजितास् तत्र निषेदुश् च यथार्थतः

1.017.032

अथ हृष्टमना राजा विश्वामित्रं महामुनिम्
उवाच परमोदारो हृष्टस् तम् अभिपूजयन्

1.017.033

यथामृतस्य संप्राप्तिर् यथा वर्षम् अनूदके
यथा सदृशदारेषु पुत्रजन्माप्रजस्य च
प्रनष्टस्य यथा लाभो यथा हर्षो महोदये
तथैवागमनं मन्ये स्वागतं ते महामुने

1.017.034

कं च ते परमं कामं करोमि किम् उ हर्षितः
पात्रभूतो ऽसि मे विप्र दिष्ट्या प्राप्तो ऽसि धार्मिक
अद्य मे सफलं जन्म जीवितं च सुजीवितम्

1.017.035

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः
ब्रह्मर्षित्वम् अनुप्राप्तः पूज्यो ऽसि बहुधा मया

1.017.036

तद् अद्भुतम् इदं विप्र पवित्रं परमं मम
शुभक्षेत्रगतश् चाहं तव संदर्शनात् प्रभो

1.017.037

ब्रूहि यत् प्रार्थितं तुभ्यं कार्यम् आगमनं प्रति
इच्छाम्य् अनुगृहीतो ऽहं त्वदर्थपरिवृद्धये

1.017.038

कार्यस्य न विमर्शं च गन्तुम् अर्हसि कौशिक
कर्ता चाहम् अशेषेण दैवतं हि भवान् मम

1.017.039

इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखम् आत्मवता विनीतम् उक्तम्
प्रथितगुणयशा गुणैर् विशिष्टः परम ऋषिः परमं जगाम हर्षम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc