रामायण · अध्याय 1.016
पुत्रत्वं तु गते विष्णौ राज्ञस् तस्य महात्मनः
उवाच देवताः सर्वाः स्वयम्भूर् भगवान् इदम्
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः
मायाविदश् च शूरांश् च वायुवेगसमाञ्जवे
नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान्
असंहार्यान् उपायज्ञान् दिव्यसंहननान्वितान्
सर्वास्त्रगुणसंपन्नान् अमृतप्राशनान् इव
अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च
यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च
किंनरीणां च गात्रेषु वानरीणां तनूषु च
सृजध्वं हरिरूपेण पुत्रांस् तुल्यपराक्रमान्
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्
जनयाम् आसुर् एवं ते पुत्रान् वानररूपिणः
ऋषयश् च महात्मानः सिद्धविद्याधरोरगाः
चारणाश् च सुतान् वीरान् ससृजुर् वनचारिणः
ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः
ते गजाचलसंकाशा वपुष्मन्तो महाबलाः
ऋक्षवानरगोपुच्छाः क्षिप्रम् एवाभिजज्ञिरे
यस्य देवस्य यद् रूपं वेषो यश् च पराक्रमः
अजायत समस्तेन तस्य तस्य सुतः पृथक्
गोलाङ्गूलीषु चोत्पन्नाः के चित् संमतविक्रमाः
ऋक्षीषु च तथा जाता वानराः किंनरीषु च
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः
विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्
क्षोभयेयुश् च वेगेन समुद्रं सरितां पतिम्
दारयेयुः क्षितिं पद्भ्याम् आप्लवेयुर् महार्णवम्
नभस्तलं विशेयुश् च गृह्णीयुर् अपि तोयदान्
गृह्णीयुर् अपि मातङ्गान् मत्तान् प्रव्रजतो वने
नर्दमानांश् च नादेन पातयेयुर् विहंगमान्
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्
शतं शतसहस्राणि यूथपानां महात्मनाम्
बभूवुर् यूथपश्रेष्ठा वीरांश् चाजनयन् हरीन्
अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः
अन्ये नानाविधाञ् शैलान् काननानि च भेजिरे
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
भ्रातराव् उपतस्थुस् ते सर्व एव हरीश्वराः
तैर् मेघवृन्दाचलकूटकल्पैर् महाबलैर् वानरयूथपालैः
बभूव भूर् भीमशरीररूपैः समावृता रामसहायहेतोः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0