रामायण · अध्याय 1.015
ततो नारायणो विष्णुर् नियुक्तः सुरसत्तमैः
जानन्न् अपि सुरान् एवं श्लक्ष्णं वचनम् अब्रवीत्
उपायः को वधे तस्य राक्षसाधिपतेः सुराः
यम् अहं तं समास्थाय निहन्याम् ऋषिकण्टकम्
एवम् उक्ताः सुराः सर्वे प्रत्यूचुर् विष्णुम् अव्ययम्
मानुषीं तनुम् आस्थाय रावणं जहि संयुगे
स हि तेपे तपस् तीव्रं दीर्घकालम् अरिंदम
येन तुष्टो ऽभवद् ब्रह्मा लोककृल् लोकपूजितः
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्
अवज्ञाताः पुरा तेन वरदानेन मानवाः
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप
इत्य् एतद् वचनं श्रुत्वा सुराणां विष्णुर् आत्मवान्
पितरं रोचयाम् आस तदा दशरथं नृपम्
स चाप्य् अपुत्रो नृपतिस् तस्मिन् काले महाद्युतिः
अयजत् पुत्रियाम् इष्टिं पुत्रेप्सुर् अरिसूदनः
ततो वै यजमानस्य पावकाद् अतुलप्रभम्
प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम्
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्
शुभलक्षणसंपन्नं दिव्याभरणभूषितम्
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्
दिवाकरसमाकारं दीप्तानलशिखोपमम्
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्
दिव्यपायससंपूर्णां पात्रीं पत्नीम् इव प्रियाम्
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीम् इव
समवेक्ष्याब्रवीद् वाक्यम् इदं दशरथं नृपम्
प्राजापत्यं नरं विद्धि माम् इहाभ्यागतं नृप
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः
भगवन् स्वागतं ते ऽस्तु किम् अहं करवाणि ते
अथो पुनर् इदं वाक्यं प्राजापत्यो नरो ऽब्रवीत्
राजन्न् अर्चयता देवान् अद्य प्राप्तम् इदं त्वया
इदं तु नरशार्दूल पायसं देवनिर्मितम्
प्रजाकरं गृहाण त्वं धन्यम् आरोग्यवर्धनम्
भार्याणाम् अनुरूपाणाम् अश्नीतेति प्रयच्छ वै
तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्
पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम्
अभिवाद्य च तद् भूतम् अद्भुतं प्रियदर्शनम्
मुदा परमया युक्तश् चकाराभिप्रदक्षिणम्
ततो दशरथः प्राप्य पायसं देवनिर्मितम्
बभूव परमप्रीतः प्राप्य वित्तम् इवाधनः
ततस् तद् अद्भुतप्रख्यं भूतं परमभास्वरम्
संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत
हर्षरश्मिभिर् उद्योतं तस्यान्तःपुरम् आबभौ
शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः
सो ऽन्तःपुरं प्रविश्यैव कौसल्याम् इदम् अब्रवीत्
पायसं प्रतिगृह्णीष्व पुत्रीयं त्व् इदम् आत्मनः
कौसल्यायै नरपतिः पायसार्धं ददौ तदा
अर्धाद् अर्धं ददौ चापि सुमित्रायै नराधिपः
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्
अनुचिन्त्य सुमित्रायै पुनर् एव महीपतिः
एवं तासां ददौ राजा भार्याणां पायसं पृथक्
तास् त्व् एतत् पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः
संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0