भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.014

1.014.001

मेधावी तु ततो ध्यात्वा स किं चिद् इदम् उत्तमम्
लब्धसंज्ञस् ततस् तं तु वेदज्ञो नृपम् अब्रवीत्

1.014.002

इष्टिं ते ऽहं करिष्यामि पुत्रीयां पुत्रकारणात्
अथर्वशिरसि प्रोक्तैर् मन्त्रैः सिद्धां विधानतः

1.014.003

ततः प्राक्रमद् इष्टिं तां पुत्रीयां पुत्र कारणात्
जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा

1.014.004

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
भागप्रतिग्रहार्थं वै समवेता यथाविधि

1.014.005

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः
अब्रुवंल् लोककर्तारं ब्रह्माणं वचनं महत्

1.014.006

भगवंस् त्वत्प्रसादेन रावणो नाम राक्षसः
सर्वान्नो बाधते वीर्याच् छासितुं तं न शक्नुमः

1.014.007

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा
मानयन्तश् च तं नित्यं सर्वं तस्य क्षमामहे

1.014.008

उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः
शक्रं त्रिदशराजानं प्रधर्षयितुम् इच्छति

1.014.009

ऋषीन् यक्षान् सगन्धर्वान् असुरान् ब्राह्मणांस् तथा
अतिक्रामति दुर्धर्षो वरदानेन मोहितः

1.014.010

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः
चलोर्मिमाली तं दृष्ट्वा समुद्रो ऽपि न कम्पते

1.014.011

तन् मनन् नो भयं तस्माद् राक्षसाद् घोरदर्शनात्
वधार्थं तस्य भगवन्न् उपायं कर्तुम् अर्हसि

1.014.012

एवम् उक्तः सुरैः सर्वैश् चिन्तयित्वा ततो ऽब्रवीत्
हन्तायं विहितस् तस्य वधोपायो दुरात्मनः

1.014.013

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्
अवध्यो ऽस्मीति वाग् उक्ता तथेत्य् उक्तं च तन् मया

1.014.014

नाकीर्तयद् अवज्ञानात् तद् रक्षो मानुषांस् तदा
तस्मात् स मानुषाद् वध्यो मृतुर् नान्यो ऽस्य विद्यते

1.014.015

एतच् छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्
देवा महर्षयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा

1.014.016

एतस्मिन्न् अन्तरे विष्णुर् उपयातो महाद्युतिः
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः

1.014.017

तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया

1.014.018

राज्ञो दशरथस्य त्वम् अयोध्याधिपतेर् विभो
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च
विष्णो पुत्रत्वम् आगच्छ कृत्वात्मानं चतुर्विधम्

1.014.019

तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्
अवध्यं दैवतैर् विष्णो समरे जहि रावणम्

1.014.020

स हि देवान् सगन्धर्वान् सिद्धांश् च ऋषिसत्तमान्
राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते

1.014.021

तद् उद्धतं रावणम् ऋद्धतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्
विरावणं साधु तपस्विकण्टकं तपस्विनाम् उद्धर तं भयावहम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc