रामायण · अध्याय 1.013
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे
सरय्वाश् चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत
ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर् द्विजर्षभाः
अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः
चक्रुश् च विधिवत् सर्वम् अधिकं कर्म शास्त्रतः
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर् यथाविधि
प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः
न चाहुतम् अभूत् तत्र स्खलितं वापि किं चन
दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे
न तेष्व् अहःसु श्रान्तो वा क्षुधितो वापि दृश्यते
नाविद्वान् ब्राह्मणस् तत्र नाशतानुचरस् तथा
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश् च भुञ्जते
तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा
वृद्धाश् च व्याधिताश् चैव स्त्रियो बालास् तथैव च
अनिशं भुञ्जमानानां न तृप्तिर् उपलभ्यते
दीयतां दीयताम् अन्नं वासांसि विविधानि च
इति संचोदितास् तत्र तथा चक्रुर् अनेकशः
अन्नकूटाश् च बहवो दृश्यन्ते पर्वतोपमाः
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा
अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः
स्वलंकृताश् च पुरुषा ब्राह्मणान् पर्यवेषयन्
उपासते च तान् अन्ये सुमृष्टमणिकुण्डलाः
कर्मान्तरे तदा विप्रा हेतुवादान् बहून् अपि
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः
सर्वकर्माणि चक्रुस् ते यथाशास्त्रं प्रचोदिताः
नाषडङ्गविद् अत्रासीन् नाव्रतो नाबहुश्रुतः
सदस्यस् तस्य वै राज्ञो नावादकुशलो द्विजः
प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास् तथा
तावन्तो बिल्वसहिताः पर्णिनश् च तथापरे
श्लेष्मातकमयो दिष्टो देवदारुमयस् तथा
द्वाव् एव तत्र विहितौ बाहुव्यस्तपरिग्रहौ
कारिताः सर्व एवैते शास्त्रज्ञैर् यज्ञकोविदैः
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः
आच्छादितास् ते वासोभिः पुष्पैर् गन्धैश् च भूषिताः
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि
इष्टकाश् च यथान्यायं कारिताश् च प्रमाणतः
चितो ऽग्निर् ब्राह्मणैस् तत्र कुशलैः शुल्बकर्मणि
स चित्यो राजसिंहस्य संचितः कुशलैर् द्विजैः
गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः
नियुक्तास् तत्र पशवस् तत् तद् उद्दिश्य दैवतम्
उरगाः पक्षिणश् चैव यथाशास्त्रं प्रचोदिताः
शामित्रे तु हयस् तत्र तथा जल चराश् च ये
ऋत्विग्भिः सर्वम् एवैतन् नियुक्तं शास्त्रतस् तदा
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा
अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह
कौसल्या तं हयं तत्र परिचर्य समन्ततः
कृपाणैर् विशशासैनं त्रिभिः परमया मुदा
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा
अवसद् रजनीम् एकां कौसल्या धर्मकाम्यया
होताध्वर्युस् तथोद्गाता हयेन समयोजयन्
महिष्या परिवृक्त्याथ वावाताम् अपरां तथा
पतत्रिणस् तस्य वपाम् उद्धृत्य नियतेन्द्रियः
ऋत्विक् परम संपन्नः श्रपयाम् आस शास्त्रतः
धूमगन्धं वपायास् तु जिघ्रति स्म नराधिपः
यथाकालं यथान्यायं निर्णुदन् पापम् आत्मनः
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः
प्लक्षशाखासु यज्ञानाम् अन्येषां क्रियते हविः
अश्वमेधस्य चैकस्य वैतसो भाग इष्यते
त्र्यहो ऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः
चतुष्टोमम् अहस् तस्य प्रथमं परिकल्पितम्
उक्थ्यं द्वितीयं संख्यातम् अतिरात्रं तथोत्तरम्
कारितास् तत्र बहवो विहिताः शास्त्रदर्शनात्
ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ
अभिजिद् विश्वजिच् चैव अप्तोर्यामो महाक्रतुः
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता
अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः
ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः
ऋत्विजस् त्व् अब्रुवन् सर्वे राजानं गतकल्मषम्
भवान् एव महीं कृत्स्नाम् एको रक्षितुम् अर्हति
न भूम्या कार्यम् अस्माकं न हि शक्ताः स्म पालने
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप
निष्क्रयं किं चिद् एवेह प्रयच्छतु भवान् इति
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्
ऋत्विजस् तु ततः सर्वे प्रददुः सहिता वसु
ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते
ततस् ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः
सुप्रीतमनसः सर्वे प्रत्यूचुर् मुदिता भृशम्
ततः प्रीतमना राजा प्राप्य यज्ञम् अनुत्तमम्
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः
ततो ऽब्रवीद् ऋश्यशृङ्गं राजा दशरथस् तदा
कुलस्य वर्धनं तत् तु कर्तुम् अर्हसि सुव्रत
तथेति च स राजानम् उवाच द्विजसत्तमः
भविष्यन्ति सुता राजंश् चत्वारस् ते कुलोद्वहाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0