भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.012

1.012.001

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत्
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च

1.012.002

अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव

1.012.003

यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम्
भवान् स्निग्धः सुहृन् मह्यं गुरुश् च परमो महान्

1.012.004

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः
तथेति च स राजानम् अब्रवीद् द्विजसत्तमः

1.012.005

करिष्ये सर्वम् एवैतद् भवता यत् समर्थितम्
ततो ऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्

1.012.006

स्थापत्ये निष्ठितांश् चैव वृद्धान् परमधार्मिकान्
कर्मान्तिकाञ् शिल्पकारान् वर्धकीन् खनकान् अपि

1.012.007

गणकाञ् शिल्पिनश् चैव तथैव नटनर्तकान्
तथा शुचीञ् शास्त्रविदः पुरुषान् सुबहुश्रुतान्

1.012.008

यज्ञकर्म समीहन्तां भवन्तो राजशासनात्
इष्टका बहुसाहस्री शीघ्रम् आनीयताम् इति

1.012.009

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः
ब्राह्मणावसथाश् चैव कर्तव्याः शतशः शुभाः

1.012.010

भक्ष्यान्नपानैर् बहुभिः समुपेताः सुनिष्ठिताः
तथा पौरजनस्यापि कर्तव्या बहुविस्तराः

1.012.011

आवासा बहुभक्ष्या वै सर्वकामैर् उपस्थिताः
तथा जानपदस्यापि जनस्य बहुशोभनम्

1.012.012

दातव्यम् अन्नं विधिवत् सत्कृत्य न तु लीलया
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः

1.012.013

न चावज्ञा प्रयोक्तव्या कामक्रोधवशाद् अपि
यज्ञकर्मसु ये ऽव्यग्राः पुरुषाः शिल्पिनस् तथा

1.012.014

तेषाम् अपि विशेषेण पूजा कार्या यथाक्रमम्
यथा सर्वं सुविहितं न किं चित् परिहीयते

1.012.015

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा
ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन्

1.012.016

यथोक्तं तत् करिष्यामो न किं चित् परिहास्यते
ततः सुमन्त्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत्

1.012.017

निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः
ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् चैव सहस्रशः

1.012.018

समानयस्व सत्कृत्य सर्वदेशेषु मानवान्
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्

1.012.019

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्
तम् आनय महाभागं स्वयम् एव सुसत्कृतम्
पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते

1.012.020

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्
सद्वृत्तं देवसंकाशं स्वयम् एवानयस्व ह

1.012.021

तथा केकयराजानं वृद्धं परमधार्मिकम्
श्वशुरं राजसिंहस्य सपुत्रं तम् इहानय

1.012.022

अङ्गेश्वरं महाभागं लोमपादं सुसत्कृतम्
वयस्यं राजसिंहस्य तम् आनय यशस्विनम्

1.012.023

प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश् च पार्थिवान्
दाक्षिणात्यान् नरेन्द्रांश् च समस्तान् आनयस्व ह

1.012.024

सन्ति स्निग्धाश् च ये चान्ये राजानः पृथिवीतले
तान् आनय यथाक्षिप्रं सानुगान् सहबान्धवान्

1.012.025

वसिष्ठवाक्यं तच् छ्रुत्वा सुमन्त्रस् त्वरितस् तदा
व्यादिशत् पुरुषांस् तत्र राज्ञाम् आनयने शुभान्

1.012.026

स्वयम् एव हि धर्मात्मा प्रययौ मुनिशासनात्
सुमन्त्रस् त्वरितो भूत्वा समानेतुं महीक्षितः

1.012.027

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते
सर्वं निवेदयन्ति स्म यज्ञे यद् उपकल्पितम्

1.012.028

ततः प्रीतो द्विजश्रेष्ठस् तान् सर्वान् पुनर् अब्रवीत्
अवज्ञया न दातव्यं कस्य चिल् लीलयापि वा
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः

1.012.029

ततः कैश् चिद् अहोरात्रैर् उपयाता महीक्षितः
बहूनि रत्नान्य् आदाय राज्ञो दशरथस्य ह

1.012.030

ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत्
उपयाता नरव्याघ्र राजानस् तव शासनात्

1.012.031

मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः
यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः

1.012.032

निर्यातु च भवान् यष्टुं यज्ञायतनम् अन्तिकात्
सर्वकामैर् उपहृतैर् उपेतं वै समन्ततः

1.012.033

तथा वसिष्ठवचनाद् ऋश्यशृङ्गस्य चोभयोः
शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः

1.012.034

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः
ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस् तदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc